________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[प्रमाणतो ग्राह्यशिलालक्षणम् ] तत्राप्यामलकीमाना सूक्ष्मा चातीव या भवेत् । तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ १६ ॥ यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् । तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ १७ ॥
[ त्याज्यशिलालक्षणम् ] कपिला कर्बरा भग्ना रुक्षा निद्राकुला च या। (रेषाकुषा? रेखाकुला)ऽस्थिरा स्थूला बहुचक्रकचक्रका ॥१८॥ बृहन्मुखी बृहच्चका बद्धचक्रा च (पायुनः ? या पुनः)। बद्धचक्राऽथ(नामा? वा या) स्याद भिन्नचका वधोमुखी ॥१६॥ दग्धा (सुरत?सुरक्ता) चापूज्या निषण्णा (पाति?पंक्ति) चक्रिका। पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥२०॥
तत्र प्रतिप्रसवः] खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना विभेदिका ।
शा(लिाल)ग्रामसमुद्भूता शिला दोषवहा न हि ॥२१॥ १८॥ श्लोकत्रयं प्राणतोषणीटतस्कन्दपुराणे किञ्चिद्विकलमुपलभ्यते। तत्र यथा पाठान्तरं तथा श्लोकमध्ये बन्धनोचिह्नान्तर्यथासम्भवं सन्निवेशितम् ।। ___ रुक्षेति-'अचिराच्छुष्कतां याति यस्यां लिप्तन्तु चन्दनम् । सा रुक्षेति' शिलाचक्रार्थबोधिनी. घृतप्रयोगपारिजातोक्तलक्षणेत्यर्थः। अस्थिरेति आसने स्थिरतयाऽवर्तमाना। बहुचक्रंति प्रमाणाधिकचक्रशालिनी, यस्याः शिलाया यावन्ति चक्राणि प्रमाणतः प्राप्तानि ततोऽधिकचक्रति पावत् । एकचक्रकेति एक चक्रकं यस्याः सा, यस्या एकमपि चक्र क्षुद्रं तादृशीत्यर्थः। अन्यत्रैकचक्राया ग्राह्यत्वश्रवणात् ।
१९ । बद्धचक्रेत्यत्र लग्नचक्रेति पाठः पुराणे। तत्रापि नास्त्यर्थान्तरम् । वृहच्चक्रेति चक्रान्तर्गतचक्रा,
'चक्रेणाऽऽवृतचका च बृहच्चका प्रकीर्तिता' इति शिलाचक्रार्थबोधिनीतप्रयोगपारिजातस्मरणात् ।
२१ । अत्र प्राणतोषण्यां स्फुटितादिवर्जनीयशिलालक्षणमभिधाय
For Private And Personal Use Only