SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः [ वर्णभेदात् फलभेद निरूपणम् ] farer सिद्धिकरी मुद्रा कृष्णा कीर्त्तिप्रदायिका । पाण्डुरा पापदहनी पीता पुत्रप्रदायिनी । नीला दिशति लक्ष्मीश्च रक्ता भोगप्रदायिनी ॥ २२ ॥ [ वर्णभेदात् संज्ञाभेदः ] कपिलं नारसिंहन्तु वामनं (चात ? पीत) सन्निभम् । वासुदेवं सितं ज्ञेयं रक्तं सङ्कर्षणं स्मृतम् ॥ २३ ॥ दामोदरश्च नीलाभमनिरुद्धं तथैव च । श्यामं नारायणं (क्षेत्रं ? ज्ञेयं) वैष्णवं कृष्ण (कर्ष ? वर्ण) कम् । बहुवर्णमनन्ताख्यं (श्री)धरं पीतमुच्यते ॥ २४ ॥ [ चक्रप्रमाणम् ] वृत्रसूत्रेऽष्टमो भाग उत्तमं चक्रलक्षणम् । मध्यमञ्च चतुर्भागः कनीयस्तु विभाग ( कः ?कम् ) ॥ २५ ॥ “यत्तु ब्रह्मपुराणे - खण्डितं स्फुटितं भग्नं पार्श्वभिन्न विभेदितम् । शालग्राम शिलाभूतं किञ्चिद्दोषावहं न हि ॥ इति वचनं तत्स्वीयेष्टचक्र स्तुतिपरम् । अत एव स्कन्दपुराणे — खण्डितं स्फुटितं भग्नं शालग्रामे न दोषदम् । यस्य तु या मूर्त्तिः स तां यत्नेन पूजयेत् । संपूज्य फलमाप्नोति इह लोके परत्र च ॥ इति रुद्रवाक्यम् । ७६ For Private And Personal Use Only इत्युक्तम् । २२ | श्वेताभ्यामयोर्विशेषफलमाह शिलाचक्रार्थबोधिनीष्टतप्रयोगपारिजाते'पुष्टिवृद्धिप्रदा श्यामा श्वेता सात्त्विकदायिनी ।' इति २३ । इदानीं वर्णक्रमेण केषाञ्चन चक्राणां लक्षणानि निर्दिशति - कपिलमित्यादि । नारसिंहादिपदे तस्येदमित्यण् । नरसिंहचक्रमित्यर्थः । एवं वामनादिषु । । २५ । इदानीं चक्रप्रमाणमाह केन - वृत्तसूत्र इति । 'वृत्तसूत्राष्टमो भागः' इत्यतिरोहितार्थः पाठः । यस्य चक्रस्य वद वृत्तमानं तस्याष्टमांशमितं चक्रम् उत्तमम्, चतुरंशमितं मध्यमम्, त्र्यंशमितमधममित्यर्थः । एतेन यथासौक्ष्म्यमेव चक्राणां श्रेष्ठ्यमित्यायातम् । यथोक्तम् 'तत्राप्यामलकीमाना सूक्ष्मा चातीव या भवेत् ' ( ५।१६ श्लो० ) इति ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy