________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः
( प्रोक्तानामायुधानां न्यासक्रमः ] अधरं दक्षिणे हस्तमारभ्य सृष्टि ( माग्रतः ? मार्गतः) । चतुर्विंशतिमूर्त्तीिनां सर्व (लेना ? वैवा ) युधक्रमः ॥ १४ ॥
[ अथ शालग्राम शिलापरीक्षा ]
[ आकृतितो ग्राह्यशिलालक्षणम् ]
नागभोगसमा युक्ता शिला सूक्ष्मा च या भवेत् । पूजनीया प्रयत्नेन स्थिरा स्निग्धा च वर्चुला ॥ १५ ॥
७७
भाव्यमिति न चापि चतुर्भिस्तादृशमूर्त्यन्तरादर्शनात् । दृश्यते हि प्रायेणालौकिकमूर्ती प्रतिपादं द्वौ द्वौ बाहू इति यथा शिवविष्णुचतुराननादीनाम् । त्रिपादस्वे च'वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । '
इत्यादिस्मृतौ ज्वरासुरादीनां पट्चरणत्वम् । यद्यपि पुराणादौ श्रूयन्ते रावणादीनामतिपादा बाहवः परं न श्रूयन्तेऽतिबाहवश्चरणाः । समबाहुत्वं द्विपदादौ दृष्टमपि न त्रिपादादौ युक्तमिति विभावयामः । अस्त्रन्यासक्रम विधायक श्लोकदर्शनादपि चतुर्बाहुत्वमेवैषां प्रतीयते इति दिक् ।
१४ | प्रोक्तानामायुधानां विन्यासक्रममाह - अधरमित्यादि । चतुर्बाहुमूर्तीनां दक्षिणाधोहस्तमारभ्य सृष्टिमार्गतः स्वभावक्रमेणाऽऽयुधक्रमो ज्ञातव्य इत्यर्थः । स्वभावक्रम आदौ दक्षिणाधोहस्तस्ततो दक्षिणोर्ध्वहस्तस्ततो वामाधोहस्तोऽन्तततश्च वामोर्ध्वहस्त इति । तथा च 'केशवः पचशंगी 'ति केशवस्य दक्षिणाधोहस्ते पद्मम्, दक्षिणोध्वें चक्रम्, वामाधः शङ्खः, वाम गदेति ज्ञेयम्, एवं सर्वत्र ।
१५ । आ पञ्चदशश्लोकात् त्रिषष्टश्लोकं यावदष्टाचत्वारिंशता लोकैः शालग्रामशिलाया लक्षणं charitra परस्परभेदाश्च निरूपितानि । शास्त्रान्तरप्रसिद्धान्यमूनि वस्तूनि क्वचिदविhomain कचिदक्षरमात्र परिवर्त्तनेन, क्वचित् पदपरिवर्तनेन क्वचिद भाषापरिवर्तनतोऽर्थमात्रादानेन चायं ग्रन्थकारो यथायथमाजहार । एते च विषयाः प्रयोगपारिजातमत्स्यसूक्तादौ स्कन्दाग्निब्रह्म-ब्रह्मवैवर्त्त-वाराहादिमहापुराणेषु चोपलभ्यन्त इति वीरमित्रोदयप्राणतोषणीशिलाचक्रार्थबोधिन्यादिसंग्रहग्रन्थादिभ्यो ज्ञायते । जिज्ञासुभिस्तत्र तत्राऽऽकरे संग्रहे वा द्रष्टव्यम् । न युक्तं पुनरर्थशास्त्रं व्याचिख्यासुभिर्धर्मशास्त्रविषयमवलम्ब्य विशेषेणाऽऽलोचयितुम् इति ततो विरमामः ।
For Private And Personal Use Only
नागभोगसमेति फणिफणाकृतिविशिष्टा, युक्ता सुघटिता । न पुनर्नागभोगसमायुक्तेत्यैकपद्यम् । 'नागभोगसमाकारे 'ति रूपमण्डने, 'छत्राकारे 'त्यन्यत्र च पाठः । स्थिरेति, आसने यथा स्थिरता वर्त्तेत तथाऽचिपिटेत्यर्थः । तथाऽपि वर्चुला ऊर्ध्वभागे गोलाकृतिः ।