SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ देवतामूर्तिप्रकरणम् वासुदेवो गदाशङ्खचक्रपमधरो मतः । केशवः कमलं कम्बु धत्ते चक्र( ?)गदामपि ॥ ७ ॥ नारायणः कम्बुपद्मगदाचक्रधरो भवेत् । माधवस्तु गदां चक्र शङ्ख वहति पङ्कजम् ॥ ८ ॥ पुरुषोत्तमस्तु चक्र पद्म शङ्ख गदां दधत् । अधोक्षजः सरोरुहं गदां शङ्ख मुदर्शनम् ॥ ९॥ सङ्कर्षणो गदा-कम्बु-सरसीरुह-चक्रभृत् । गोविन्दो धरते चक्र गदां पद्मञ्च कम्बुना ॥ १० ॥ विष्णुः कौमोदकी पद्म पाञ्चजन्यं सुदर्शनम् । मधुसूदनस्तु चक्रं शङ्ख सरसिज गदाम् ॥ ११ ॥ अच्युतस्तु गदापद्मचक्रशङ्खः समन्वितः। उपेन्द्रो वहते शङ्ख गदां चक्रं कुशेशयम् ॥ १२ ॥ प्रद्युम्नश्र शङ्खचक्रगदाम्भोजानि पाणिभिः।। त्रिविक्रमस्त्रिषु गदाचक्रशलान् बिभर्ति यः ॥ १३ ॥ भरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । जनार्दनोऽम्बुज चक्र कम्बु कौमोदकी दधौ ॥ १४ ॥ वामनस्तु शङ्खचक्रगदापद्मलसत्करः । श्रीधरो धारिज चक्र गदाशङ्ख दधाति च ॥ १५ ॥ अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दधान् । हृषीकेशो गदां चक्र पद्मशडौ च धारयन् ॥ १६ ॥ पद्मनाभः पाञ्चजन्यं पद्म चक्र गदामपि । दामोदरोऽम्बुज शङ्ख गदां धत्तं सुदर्शनम् ॥ १७ ॥ हरिर्धारयते कम्बु चक्र पद्म तथा गदाम् । कृष्णः करैः पाञ्चजन्यं गदां पद्म सुदर्शनम् ॥ १८ ॥ एताः सुमूर्तयो ज्ञेया दक्षिणाधःकर-क्रमात् । इति । इदमत्रावधेयम्-रूपमण्डने अन्येषामिव केशवमधुसूदनयोरपि चत्वारि चत्वार्यायुधानि निर्दिष्टानि, अन तु केशवस्य पद्मशङ्खाविति द्वे, मधुसूदनस्य पुनः शङ्खपद्मगदा इति त्रीण्यायुधानि दृश्यन्ते । तत्र च सम्भवन्त्यामपि केशवस्य द्वैवाहव्यामाकृतौ, मधुसूदनस्य त्रैवाहवं रूपन्त्वनाकर्णितचरमिति छन्दोदोषमविगणय्यैव बन्धन्यन्तश्वकारः प्रक्षिप्तोऽस्माभिरिति ज्ञेयम् । __रूपमण्डने त्रैविक्रमं रूपं त्रैवाहवं दृश्यते, इह पुनश्चातुर्वाहवमिति । कतरत् पुनरनयोयुक्ततरमिति नावधारयामः । न यस्ति निममो यत् त्रयोऽस्य पादा इति बाहुभिरपि त्रिभिरेव For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy