________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[ यमः] लेखनी पुस्तकं हस्ते कुकुटं दण्डमेव च । महामहिषमारूढः कृष्णाङ्गश्च यमो भवेत् ॥ ६१॥
[नितिः] खड्गखेटकहस्तश्च कतिका(कर्त्तका?)वैरिमस्तकम् । दंष्ट्राकरालास्यं कुर्याच श्वानरूपञ्च (श्वानारूढञ्च?) नैऋतम्॥६२॥
[वरुणः] वरदं पाशपद्मश्च कमण्डलुन्तथा करे। मकरा(नक्रा?)रूढश्च कर्त्तव्यं वरुणं पश्चिमादिशि ॥ ६३ ॥
[वायुः] वरं ध्वजपताकञ्च कमण्डलुन्तथा करे। मृगारूढं प्रकर्त्तव्यं वायुदेवं (तलो ? मरुद्)दिशि ॥ ६४॥
[कुबेरः] गदा-निधि-बीजपूरं कमण्डलु करे तथा। गजारूढं प्रकर्त्तव्यं सौम्यायां धनदं दिशि ॥६५॥
६२ । श्वानारूढमिति श्वारूढमित्यर्थः, अदन्तः श्वानशब्दोऽपि कुक्कुरार्थकः। अयं खरारूढ इति कालिकापुराणम् (अ० ७९, ६१ श्लो०)। 'दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः' (रूप० २ अ० ) इति रूपमण्डने पाठः । 'शवारूढम्' इति काश्यपशिल्पे (४८१४७) पाठः। एवञ्च यद्यपि यथाकामं 'खरारूढ' 'शवारूढ'योरन्यतमः पाठः शुद्धत्येनोपादातुं शक्यते तथाऽपि साम्यबाहुल्याद रूपमण्डनपाठसाम्याच्च बन्धनीमध्यस्थपाठ एव शुद्धत्वेन निर्णीतः।
६३। 'नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः' (रूप० २ अ०) इति रूपमण्डने पाठः । यद्यपि यादस्त्वाविशेषेण मकरो नश्त्यु भावेव वरुणस्य वाहनोभावे स्वरूपयोग्यौ तथाऽपि छन्दोऽनुकूलत्वेनान्यत्रोपलब्धेश्च नक्र इत्येव पाठः शुद्धत्येन कल्पितः। वरुणो हंसारूढ इति जलाशयतत्त्वस्तहयशीर्षपञ्चरात्रम् ।
६४। यद्यपि 'तलो' इत्यत्र 'मरुद' इति पाठकल्पनम् एकान्ततः कल्पनैव, तथाऽप्यर्थवैधुर्यादनन्यगत्या तथा पाठः कल्पितः । निपुणैः शब्दसाम्यमनुबध्य पाठान्तरमनुसन्धातव्यम् ।
For Private And Personal Use Only