SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ चतुर्थोऽध्यायः [राहुः] सिंहासनगतं राहु करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं लिखेत् ॥५६॥ [केतवः] धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः। गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ ५७ ॥ [ग्रहमूतौ साधारणविधिः] (य? ग्रोहाः किरीटिनः कुर्यान् (कार्या?) नवतालप्रमाणकाः। रत्नकुण्डलकेयरहाराभरणभूषिताः ॥५८॥ इति नवग्रहाः। वरदं वज्राङ्कुशञ्च कमण्डलुविधृत्करम् । गजारूढं सहस्राक्षमिन्द्रं पूर्वदिशि स्थितम् ॥५६॥ [अग्निः ] वरदं शक्तिहस्तञ्च मृणालञ्च कमण्डलुम् । ज्वालापुञ्जनिभं रूपं (देवं ?) मेषारूढं हुताशनम् ॥६०॥ ५८। अन्न 'गृध्राः' इति शिल्परत्ने (शिल्प० उ० २५।१५७ श्लो० ) पाठः। यद्यप्यत्र एकाक्षरविपरिणामलभ्या पाठशुद्धिः 'गृध्रा' 'ग्रहा'श्चेत्युभयमेव युगपद् बुद्धावाविर्भावयति, तथापि प्रकरणाद् ‘ग्रहा' इत्येव पाटः समीचीनतयाऽस्माभिनिर्धारितः। किञ्च यद्यत्र 'गृध्रा' इति पाठः स्यात्तदा 'नवतालप्रमाणकाः' इत्यनुपपन्न भवेत् , 'द्वाभ्यां प्रोक्ता विहङ्गमाः' ( २अ० ४श्लो०) इत्यनेन विहङ्गविशेषस्य गृध्रस्य द्वितालकत्वस्यैव युक्तत्वात् ।। ५९। वज्राङ्कुशमित्यस्त्यर्थेऽत् । एवम्भूतम् इन्दं चित्रविशारदाचित्रे कुर्युरित्यध्याहारेण द्वितीयान्तपदानामन्वयः । प्रथमार्थे द्वितीया वा, लेखकप्रमादाद बिन्दोरेकस्त्रुटितो वेति ज्ञातव्यम् । ६०। वरदमित्यादि। मृगालञ्च कमण्डलुमिति दधानमिति शेषः, चित्रे कुर्युरित्येव । एवमुत्तरत्रापि यथासम्भवं दधानम् , दधानो वा, कुर्युः क्रियेत वेत्याद्यध्याहारेण वाक्यानामन्वयोपपत्तिर्द्रष्टव्या। वरदः शक्तिहस्तश्न समृणालकमण्डलुः। ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥ इति रूपमण्डने (२१० ३१श्लो०)। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy