________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाऽध्यायः
दक्षिणे पौष्करा ( री ?) माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरौ (रा?) सुधामा (ता ?) प्रथमा स्मृता ॥२२ शूली (लं ?) वामकरे यस्य (स्या ?) दक्षिणे सोम एव च । मित्रा नाम विनयना कुशेशयविभूषिता ॥ २३ ॥ प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभो (पल्लवौ ?) ॥२४॥ अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् । सा मूर्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः । सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥ कमण्डलु द (लुर्द १) क्षिणतोऽक्षमाला चैव वामतः । सा भवेत् सस्मिता सूर्यमूत्तिः पद्मविभूषिता ॥ २७ ॥ यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् । भर्ग ( ग ) मूर्त्तिः समाख्याता पद्महस्ता शुभाय
वै ॥ २८ ॥
२२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमामाह - दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलघटिता माला, वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्द्धाविति ज्ञेयम्, ऊढ क्रमेणैव धारणीयद्रव्याणां कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधः करावित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । 'पद्माभ्यां शोभितकरे 'त्युचितः पाठः ।
सुधातेति । अत्र 'सुधाते 'ति वा 'सुधामेति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो दुष्परिहर एव, उद्देश लोके 'धाते 'ति पाटस्योपलब्धेः । अत्र ब्रूमः - 'सुधाते 'त्येव पाठो ज्यायान् परिगणनश्लोक स्थितधातृशब्दसाम्यात् छन्दोभङ्गदोषोतसारणाय चोपपदं प्रक्षिप्तमिति तदेतत् सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति ।
२३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा ।
देवता - ६
For Private And Personal Use Only