SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् अनसूत्रं गदाखेटं दण्डञ्च विजयो भवेत् ( दधत् ? )। अधोहस्तापसव्येन खड्गयुग यज्ञभद्रकः ॥ १६ ॥ अक्षपाशाङ्कुशा(शान् ?)दण्डभयश्च (दण्डं भवश्व ?) सर्वकामदः । दण्डाङ्कुशपाशोत्पलनिभवः (पलं विभवः ?) सर्वशान्तिदः ॥२०॥ [ अथ द्वादश सूर्यमूर्तयः] शृणु वत्स प्रवक्ष्यामि सूर्यभेदांश्च ते जय । यावत्प्रकाशकः सूर्यो यावन्मूर्तिभिरीरितः ॥ २१॥ धस्तुनो द्विरुलेखः समुपलभ्यते । 'वाम' इति पदमप्यनन्वयि । अत्र 'प्रियोदुभव' इति पाठो रूपमण्डने (रूप-अ० २,१५ श्लो०)। २० । तदेवं वामतश्चत्वारः सप्त-धर्मक-मतोदभव-जयनामानो ब्रह्मणः प्रतीहाराः, दक्षिणत. श्वत्वारो विजय-यज्ञभदक-भव-विभवनामानश्च निर्दिष्टाः । २१। इदानी द्वादश सूर्यमूर्तीराह-ण्विति । जय इति वत्सेत्यनेनोद्दिष्टस्य सम्बोध्यस्य नाम । यद्वा जय सर्वोत्कर्षेण वर्तस्वेत्यर्थः। ते प्रवक्ष्यामीत्यन्वयः । यावदिति समस्तवस्तुप्रकाशक इत्यर्थः। यावन्मूर्तिभिरीरितः कथितस्तावतीमूर्तीश्न प्रवक्ष्याभीत्यर्थः। सर्वा एवैता मूर्तयश्चतुर्बाहव इति ज्ञायते धार्यव्याणामाधिक्यदर्शनात् ; तथा 'पद्मद्वयाभयवरान् दधतं कराजैः' इत्यन्यत्र 'कराब्जैरि'त्यनेन दोष्णां द्वाधिकत्वलाभाच्च । अत्र पूष्णो मूर्तिर्द्विभुजा केवलपमद्वयलाञ्छिता व, वैष्णवी मूर्तिरपि द्विकरा, परं तस्या दक्षिणकरे चक्रमितरत्र पसमिति विशेषः । तदितरत्र सर्वासामेव मूर्तीनां करद्वये नीरजद्वयमन्ययोश्न यथोक्तद्रव्याणीति। अग्निपुराणेऽपि'वरदा द्वाजिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।' (अ० ५१,३ श्लो०) इति । ससप्ताश्ये सैकचक्रे रथे सूर्यो द्विपाष्टक् । मसीभाजनलेखन्यौ बिभ्रत् * * * ॥ (अ० ५१,१ श्लो०)। इत्यनेन च तन्मूर्तीनां चतुर्बाहुत्वस्य सूचितत्वात् । एतेन काश्यपशिल्पे द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः॥ (अ० ४८,७९-८० श्लो०) इति यद द्विकरत्वं भास्करमूर्तीनामुक्तं तन्मतान्तरप्रदर्शनमिति कृत्वा सोढव्यम् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy