________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः पद्मं मृ (सु ?)चाऽत्तरं डंश (दंशं ?) सप्तनामा तु वामतः। सव्यापसव्ययोगेन कमण्डलुश्च (श्च ?) धर्मकः ॥ १७ ॥ अक्षपद्मवामदण्डकमलश्च (श्च ?) महतोद्भवः (मतोद्भवः ?)। दण्डागमस्त्रवाक्कालं (स्रुचा कालं ?) जयश्च सर्वकामदः ॥१८॥
इत्युक्तलक्षणम् । नायुक्तञ्च वेदस्म वैदिकधुरीणस्य द्रुहिणस्य प्रतीहाराणामपि वेदोक्तकर्मनिर्वाहसाहायकार्थ कुशमुष्टिधारणम् । तूलिकेति तृतीयोऽर्थः। सा च वृषश्रवणरोमभिर्वा खरकेशैर्वा तन्तुभिर्वा घटिता उदुम्बराङ्कराकारा वटाङ्कराकारा प्लक्षसूचीनिभा वेति शिल्पशास्त्रादवगम्यते। तथा च समराङ्गणसूत्रधारे-अ० ७३ । १५-१६, १८-१९ श्लो० ।
'कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥' 'वल्कलैर्वा विधातव्यः खरकेशैरथापि वा।' 'सन्तुतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः।' 'आद्यो वटाङ्कराकारस्ततोऽश्वत्थाङ्कराकृतिः ॥' (संशोधितः पाठः) "प्लक्षसूचीनिभश्चान्यः * * * * ।'
उडुम्बराङ्कराकारः * * * * * ॥' इति कूर्चविषयं वर्णनमुपलभ्यते। नानुचितञ्च विश्वसृजः प्रतीहाराणाम् अङ्कनोपयोगिन्यास्तूलिकाया ग्रहणम्, प्रभोः प्रतीहाराद्यनुजीविनामपि प्रभुसम्मतवेशभूषादीनां लोकतः शास्त्रतश्चानुशीलयितव्यत्वात्। एतेऽर्था दिग्दर्शनार्थमस्माभिरुपक्षिप्ताः, अन्यतरार्थग्रहणपरिहारयोस्तु सुधियः प्रमाणम् । इदमत्रावधेयम् -यदि नाम कूर्च धार्यवस्तुविशेषः स्यात्तदा परतः प्रोक्तः प्रहरणादिभिया॑पृतबाहुभिरेतैः क्व नाम तदु धार्यमिति श्मश्रर्थक एव कूर्चशब्दोऽत्र श्लिष्टः स्यात् ।
१७। एवं तेषां साधारणीमाकृतिमभिधाय इदानीं तेषां प्रातिस्विकं लक्षणमाहपनमित्यादि। त एते सर्व एव चतुर्हस्ता सव्यापसव्ययोधिःक्रमेण यथोक्तप्रहरणादिधारिणो ब्रह्मणः सव्येऽपसव्ये च चतुश्रतुःक्रमेणावस्थिताः। तत्र वामे प्रथमतः सप्तनामा वामदक्षिणयोईस्तयोः पनम्, स्रुचाम्, अक्षरम्, वेदम्, दंशम् दधान इति शेषः। एवं सर्वत्र द्वितीयान्तानां दधान इति क्रिययाऽन्वयः। तत्र स्रुचा सुक्, दंशोऽस्त्रविशेषः। द्वितीयमाह-कमण्डलुच धर्मक इति, कमण्डलुच दधानो धर्मकनामा द्वितीय इत्यर्थः। अत्र कमण्डलुरिति पूर्वोक्तचतुष्टयातिरिक्तत्वेन वा एकहान्यपरकल्पनविधया वा निर्दिष्टमिति न ज्ञायते ।
१८। 'अक्षपद्मवामदण्डकमलने'त्यस्य प्रकृतः पाठोऽनुसन्धेयः । पद्म कमलञ्चेत्येकस्यैव
For Private And Personal Use Only