________________
Shri Mahavir Jain Aradhana Kendra
६६
www.kobatirth.org
देवतामूर्त्तिप्रकरणम्
अथ वामकरे माला त्रिशूलं दक्षिणे करे | सा विश्वमूर्त्तिः सुखदा पद्मलाञ्छनलक्षिता ॥ २६ ॥ पूषाख्यस्य वेर्मूर्त्तिर्द्विभुजा पद्मलाञ्छना । सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥ ३० ॥ दक्षिणे तु गदा यस्य वामहस्ते सुदर्शनम् । पद्मव्यग्रा तु सावित्रीमूर्त्तिः सर्वार्थसाधिनी ॥ ३१ ॥ सुत्रञ्च दक्षिणे हस्ते वामे होमज ( लीलकम् ? कज्जलम् ) । मूर्त्तिस्त्वष्ट्री भवेद् वत्स पद्मरुद्धकरद्वया ॥ ३२ ॥ सुदर्शना ( न ?) करा सव्ये पद्महस्ता तु वामतः । एषा सा द्वादशी मूर्त्तिर्विष्णोरमिततेजसः ॥ ३३ ॥ धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता त्वष्टृविष्णुकौ ॥ ३४ ॥
इति द्वादश सूर्यमूर्त्तयः ।
आग्नेयपुराणे पुनः
२९ ।
विश्वमूर्त्तिरिति, वैवस्वती मूर्त्तिरित्यर्थः ; उद्देशश्लोके तथा पाठात् । ३४ । उक्तलक्षणानां द्वादशमूर्तीनां संग्रहश्लोकमाह -- घातेति । दूरविभिन्नान्येव सूरनामान्युपलभ्यन्ते काश्यपशिल्पे । तथा च
विकर्त्तनो विवस्व मार्त्तण्डो भास्करो रविः । लोकपालः प्रकाशश्व लोकसाक्षी त्रिविक्रमः ॥ आदित्यच तथा सूर्यः अंशुमाली दिवाकरः । एते वै द्वादशादित्या उत्तरादिक्रमात् स्थिताः ॥ इति । ( अ० ४८,८१-८३ श्लो० )
Acharya Shri Kailassagarsuri Gyanmandir
वरुणः सूर्यनामा च सहस्रांशुस्तथाऽपरः ।
धाता तपनसंज्ञश्च सविताऽथ गभस्तिकः ॥
रविचैवाथ पर्जन्यस्त्वष्टा मित्रोऽथ विष्णुकः ।
मेषादिराशिसंस्थाच मार्गादिकार्तिकान्तकाः ॥ ( अ० ५१,५-६ श्लो० )
For Private And Personal Use Only