________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org
देवतामूर्त्तिप्रकरणम् चण्ड्या एकोनषष्टशे भैरवी तद्द्याधिके । वेतालस्य विषष्ट्यंशे पदं शून्यं तदर्द्ध (दूर्द्ध ? ) तः ॥ १७ ॥ लिङ्गाग्रे नैव कर्त्तव्या ह्यर्चारूपेण देवताः । प्रभानष्टा नभोगा य (श्च ?) यथा तारा दिवाकरे ॥ १८ ॥ शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः । विष्णौ विष्णुः (ष्णु ?) जिने जैनं सूर्ये सूर्यमनुक्रमात् ॥१६॥ मातरश्चण्डिका स्युर्यज्ञाः क्षेत्रादिभैरवः । स्वे स्वे स्थाने सुराः स्थाप्या ये यस्यापि हितावहाः ॥ २० ॥ ब्रह्मविष्णोरेकनाभिजि (जि ? ) ने दोषो न विद्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
शिवा चान्यदेवस्य दृष्टिवेधे महद् भयम् ॥ २१ ॥ ब्रह्मा विष्णुः शशी सूर्य इन्द्रः स्कन्दो हुताशनः । दिक्पाला लोकपालाश्च ग्रहा मातृगण ( णा ? ) स्तथा ॥२२॥
1
१७ । भैरवीति भैरवस्य दृष्टिः । पदमिति । तदूर्द्धतः त्रिषढ्य शात् परतः शून्यं पदं दृष्टिस्थानं भवति, विषमद्वारांशस्य त्रिषष्ट्यंश एव निःशेषितत्वात् ।
१८ । लिङ्गाग्र इति । लिङ्गाग्रे शिवलिङ्गाग्रे अर्चारूपेण प्रतिमारूपेण देवता न स्थाप्याः । एतच, 'शिवस्याग्रे शिवं कुर्यात्' इति वक्ष्यमाणविधेरपवादकम् लिङ्गाग्रे शिवप्रतिमामपि न कुर्यादित्यर्थः । एवञ्च शिवस्याग्रे शिवं कुर्यादित्यस्यायमर्थः- शिवस्य लिङ्गस्याग्रे शिवं शिवलिङ्गम्, शिवस्य प्रतिमाया अग्रे च शिवप्रतिमां कुर्यादिति ।
प्रभानष्टेति । लिङ्गाग्रे अर्चारूपेण देवताः कृताश्चेत् प्रभानष्टा नष्टप्रभा भवन्ति । अत्र दृष्टान्तमाह - नभोगेति । यथा दिवाकरे उदिते नभोगा नभःस्थास्तारा नष्टप्रभा भवन्ति तद्वदित्यर्थः ।
ܕ
For Private And Personal Use Only
२०–२१ । पूर्वं ‘ब्रह्माणं ब्रह्मणोऽग्रतः' इति 'विष्णौ विष्णु जिने जैनम्' इत्युक्तम्, इदानीं तदपवादमाह – ये यस्यापीति ब्रह्मविष्णुरिति च । यस्य देवस्य ये हितावहा हितकारका
भवन्ति तेऽपि तदग्रतः स्थाप्या इत्यर्थः ।
ब्रह्मेत्यादि । एकनाभिः सनाभिः सपिण्डस्तुल्यो वा, तादृशे जिने सम्मुखवर्त्तिनीत्यर्थः, दोषो न विद्यते, ब्रह्मणो विष्णोवा स्थापितो जिनो दोपाय न भवतीत्यर्थः । ce ब्रह्मणि विष्णौ वा स्थापिते दोषो न भवतीति लभ्यते न्यायसाम्यात् ।
एवञ्च जिनस्या