________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः त्रयोविंशतिपर्यन्तमेकादि विषमांशके। स्थाप्या उ(न्यु ?)दुम्बरादूर्दू शिवलिङ्गानि धीमता ॥१०॥ पञ्चविंशे मुखं लिङ्गं द्वेऽ(द्वय ?)धिके जलशायिनः। धनदस्य द्वयाधिक्ये मातृणां तहयाधिके ॥११॥ वृ(य ?)क्षाणां दृक् त्रयस्त्रिंशे पञ्चत्रिंशे वराहक । सप्तत्रिंश उमेशस्य बौद्धस्य तयाधिके ॥१२॥ एकाधिचत्वारिंशे तु स(?)विव्या ब्रह्मणो दृशः। दुर्वाससो द्वयाधिक्ये नारदागस्त्ययोरपि ॥१३॥ पञ्चवेदपदांशे तु लक्ष्मीनारायणस्य च । द्वयाधिक्ये विधेर्धातुः सरस्वत्या द्वयाधिके ॥१४॥ सारदांशे गणेशस्य द्वयधिकेऽब्जासनस्य च । हरसिद्धिस्त्रिपञ्चांशे कर्तव्या सर्वकामदः (दा ?) ॥१५॥ ऊर्चािदृष्टिसंस्थानं ब्रह्मविष्णुजिनार्कयः।
पञ्चपञ्चाशन्नागे स्याद्रौद्री तस्माद्याधिके ॥ १६॥ . १०। शिवलिङ्गदृष्टिस्थानमाह-त्रयोविंशतीत्यादि। एकादित्रयोविंशतिपर्यन्तं विषमांशके एक-त्रि-पञ्च-सप्तेत्याययुग्मांशे, उदुम्बराद देहल्या ऊढे शिवलिङ्गानि स्थाप्यानि, यथा तत्तदयुग्मांशे लिङ्गानां दृष्टिः स्यात्तथा तानि स्थापयेदित्यर्थः ।
११। मुखं लिङ्गमिति लिङ्गविशेषः । द्वयधिके इति सप्तविंशे। द्वयाधिके ऊनविंशे । तदद्वयाधिक इत्येकत्रिंशे।
१२ । तदद्वयाधिके ऊनचत्वारिंशे । १३ । एकाधिवत्वारिंशे इत्येकचत्वारिंशे। द्वयाधिक्ये इति त्रिचत्वारिंशे । १४। पञ्चवेदपदाशे पञ्चचत्वारिंशांशे ।
१५ । “सारदांश इति । सारदा दुर्गा लगया तत्पीठस्थानानि, तन्मिते अंशे एकपञ्चाशांश इत्यर्थः। त्रिपञ्चांश इति त्रिपञ्चाशांशे, अबञ्चांशोऽजासनहरसिद्वयोः साधारग इति ज्ञेयम् , 'द्वयधिकेऽजासनस्य' इत्यनेन त्रिपञ्चाशांशेऽजासनस्य दृष्टेरुक्तत्वात् ।
For Private And Personal Use Only