SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूत्तिप्रकरणम् मानुषं (षः ?) षोडशांशः स्याच्चतुर्विंशत् पिशाचकः । देवांशे ब्रह्मविष्णवंशाः सर्वे देवाश्च मानुषे ॥७॥ मातरो यक्षगन्धर्वा रक्षा ( क्षो ?) भूतसुरादयः । स्थाप्याः पैशाचशे ते ब्रह्मांशे लिङ्गमेश्वरम् ॥८॥ इति देवतापदस्थानम् अथ देवतादृष्टस्थानम् द्वारादयोऽष्टधा कर्म (कार्या ?) एकैकांशोऽष्टधा पुनः । चतुःषष्टिविभागेषु विषमेषु शुभा दृशः ॥ ६ ॥ भजेदिति क्रियानिष्ठैकत्वव्यपेक्षया न कृतः, आमूलं शोधितच वैरस्यमावहेदित्यवधेयम् । मितितो मानेन एकोनपञ्चाशद् भागो गर्भाद्धं भजेत्, गर्भार्द्धम् एकोनपञ्चाशता भागैर्विभजेदित्यर्थः । शो मध्यम एकांशो ब्रह्मसंस्थानं ब्रह्मांशः, ततोऽष्टौ भागा देवानाम्, षोडश भागा मानुषाणाम्, चतुर्विंशतिर्भागाः पिशाचानामिति समृदिता एकोनपञ्चाशद भागाः । लिङ्गस्य प्राधान्यात् पश्चान्निर्देशमभिप्रेत्य ब्रह्मांशमपहायैव देवांशमाह - देवांश इति । ब्रह्मविष्णवंशास्तत्परीवाराः सर्वे देवा देवांशे स्थाप्याः । अत्र 'सर्वे देवाच' इत्युक्तत्वाद्वक्ष्यमाणे भूतसुरादय इत्यत्र सुरपदं देवयोनिपरम्, तथा च ये तावदत्रोक्तास्ते तदितरे च देवयोनय इत्यर्थः । मानुषे अशे मातरः स्थाप्याः, पैशाचकेऽशे यक्षगन्धर्वादयः स्थाप्या इत्यर्थः । ब्रह्मांश इति । ऐश्वरं लिङ्ग शिवलिङ्गम् एतदुपलक्षणं प्रतिष्ठाप्यदेवतार्चामात्रमित्यर्थः । तथा चाssग्नेये पिण्डिकास्थापनार्थन्तु गर्भाकारन्तु सप्तधा । विभजेद ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः ॥ देवमानुपपैशाचभागेषु न कदाचन । ( अ० ६०, १-२ लो० ) इत्यविशेषेण ब्रह्मभागे प्रतिमास्थापनं देवादिभागानाञ्च तत्कर्मणि निन्दनीयत्वमुक्तम् । अत्र च देवादिषु कस्य कियन्तो भागा इति न विशिष्योक्तम् । यदि च 'सप्तधे' त्यस्य वीप्सार्थत्वमङ्गीकृत्य एकोनपञ्चाशदित्यर्थलाभाय 'सप्तसप्तये 'ति व्याक्रियेत, तदा प्रकृतग्रन्थानुगृहीता विभागरीतिस्तनाप्यादरणीया स्यादिति विभावनीयम् । इति देवतापदस्थानव्याख्या । ९। देवानां दृष्टिस्थानं वक्तुं द्वारविभागमाह - द्वारादय इति । अत्राऽऽदिपदग्राह्य ं किमिति जानाति तत्रभवान् सूत्रभृन्मण्डन एव । चतुःषष्टिविभागेषु मध्ये विषमेषु भागेषु दृशो दृष्टयः शुभाः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy