________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः
मध्ये यद् ब्रह्मणः सूत्रं तस्य वामे शिवस्य च । तन्मध्ये वैष्णवं सूत्रं तत्सूत्रे (वं ?) सार्वदेवतम् ॥३॥ मध्ये वि (?) पुरुषे रुद्र आदौ ब्रह्माऽन्तगो हरिः । क्रमेण सौख्यदा एव विपरीता भयावहाः || ४ || रुद्रः हरिरद्ध:..
1
तत्तुल्या च उमा देवी सुखदा सर्वकामदा ॥५॥ भाग एकोनपञ्चाशद् गर्भाद्धं मितितो भजेत् । गर्भशो ब्रह्मसंस्थान ( नं ?) देवं भागाष्टकं ततः ॥६॥
'वामे चांशम्' इति पाठे । तथा हि-मत्स्यपुराणोक्तक्रमेण एकविंशतिधा विभक्तस्य द्वारस्याद्धे त्रिधा कृते सार्द्धयो भागा भवन्ति, एवं प्रकृतग्रन्योक्तक्रमेण - एकविंशतिधाऽशितस्य द्वारस्य समग्रस्य षद्भिर्विभागेऽपि त एवांशा भवन्ति । ततश्रार्द्धात् सार्द्धत्रिभागं त्यजतः समग्रात् सप्तांशत्यागो गणितागमानुगत्या नार्थान्तरकोटिमारोहतीति, मूले द्वंशत्यागो मात्स्ये चैकांशत्यागो वस्तुगत्या एक एवेति न काचिदु विप्रतिपत्तिः । एवं ब्रह्मस्थानेऽपि द्वैगुण्यादि ज्ञेयम् ।
तत् सूत्रमिति । तद् ब्रह्मसूत्रम्, शिवमध्यगम् - शिवो मध्यगो यस्य तादृशम्, तन्मध्ये लिङ्ग' स्थापयेदित्यर्थः, वक्ष्यति च स्वयमेव 'ब्रह्मांशे लिङ्गमैश्वरम्' (५४ पृ० ८ श्लो० ) इति ।
३। मध्य इति । मध्ये यद् ब्रह्मणः सूत्रं पूर्वमुक्तम्, तस्य वामे वामभागे व्यपोहितद्वयशे इत्यर्थः, शिवस्य सूत्रं भवेत्, तन्मध्ये दक्षिणे इत्यर्थः, वैष्णवं सूत्रं भवेत्, तत् सूत्रञ्च सार्वदैवतं सर्वदेवतास्थानम् । वक्ष्यति च--' - 'दैवांशे ब्रह्मविष्णवंशाः सर्वे देवाश्च' (७ लो०) इति ।
५३
४ । मध्य इति । त्रैपुरुषे ब्रह्मविष्णुरुद्राणामाश्रयभूते सूत्रे, यद्वा त्रिषु पुरुषेषु मध्ये, रुद्रतत्सूत्रस्य मध्ये भवेत्, आदौ ब्रह्मा भवेत्, हरिश्रान्तगो भवेत् ।
क्रमेणेति । एवं क्रमेण वर्त्तमाना एते सौख्यदा भवन्ति, विपरीता भयमावहन्तीत्यर्थः । तथा च समराङ्गणसूत्रधारे
स्थापयेत् (पुरुषत्रया ? ) शि ( वा ? वं ) मध्ये निवेशयेत् ।
ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥
अन्यथा स्थापनादेषां प्रत्यवायो महान् भवेत् । ( अ० ७०, १४१-१४२ श्लो० ) इति । अस्फुटार्थाऽपीयमर्द्धत्रयी प्रकृतोपयोगिनीत्यत्र नास्ति नः स्तोकोऽपि संशयः ।
For Private And Personal Use Only
५ । रुद्र इत्यादि । खण्डितत्वाद् दुर्ज्ञेयोऽस्यार्थः ।
६-८ । गर्भमानेन देवानां स्थानमाह - भाग इति । अत्र च भागा इत्युचितोऽपि पाठो