________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः एते शिवाश्रये स्थाप्या दृष्टिवेधविजिताः। दृष्टियातहितं यच्च पुराघं न प्ररोहति ॥२३॥
[देवतास्थापने दिनिर्णयः] पूर्वापरास्यं देवानां मुखं नो दक्षिणोत्तरम् । ब्रह्मा विष्णुः शिवार्केन्द्रा गुहः पूर्वपराङ्मुखः ॥२४॥ नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः । शिवब्रह्मजिना विष्णुः सर्वाशाभिमुखाः शुभाः ॥२५॥ गणेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा। भूताद्या धनदाश्चैव दक्षिणास्याः शुभाः स्मृताः ॥२६॥ मातणां सदनं कार्य दक्षिणोत्तरदिङमुखम् ।
हनुमान् वानरश्रेष्टो नै तास्यो विदिङ्मुखः ॥२७॥ __२३। एत इति। दृष्टिवेधविवर्जिता इति ब्रह्मविष्णादीनां परस्परदृष्टिवेधेन हीनाः, शिवदृष्टिवेधेन वा। 'दृष्टियातहितं यच्च' इत्यत्र 'दृष्टिपातहिता यन्त्र' इति स्यात् । तथा सति यन्त्र देवा दृष्टिपातवशाद हितास्तत्र स्थाने पुरा नगरस्य पापम् अमङ्गलमित्यर्थः, न प्ररोहति न प्रोद्भवतीत्यर्थः। ___ २४ । देवानां मुखं पूर्वापरास्यं पूर्वदिकस्थं पश्चिम दिक्स्थं वा कुर्यादिति शेषः। दक्षिणोत्तरं दक्षिणोत्तरदिक्स्थं न कुर्यात् । अत्र पूर्वादिशब्दो दिश्ये लाक्षणिकः। ब्रह्मेति । एतच्च विशेषाभिधानं मतान्तर इति ज्ञेयम् । मत्स्यपुराणे पूर्वोत्तरमुखत्वस्योक्तत्वात् । तथा च
वासुदेवादिप्रतिमालक्षण प्रवदामि ते।
प्रासादस्योत्तो पूर्वमुखी वा चोत्तराननाम् ॥ इति (अ० ४४, १ श्लो०) यथा तथा वा भवतु सर्वथा विसंष्ठुलोऽयं श्लोकः। अस्य प्रकृतपाठोऽनुसन्धेयः।
२६ । नगरेति। मध्ये वास्तुमध्ये, बाह्ये वास्तुबहिर्भागे च प्रतिष्ठाप्या देवता नगराभिमुखाः प्रशस्यन्ते । पूर्वापरास्यमिति यदुक्तं तत्र मतान्तरं दर्शयति-शिवेत्यादि। सर्वाशामिमुखाः सर्वदिङ्मुखाः। अत्र पूर्व पूर्वपराङ्मुखत्वकथनाद ब्रह्मविष्णुशिवग्रहणं मतान्तरद्योतनार्थम् , जिनग्रहणन्तु न तथा, पूर्वमनुल्लेखेन कस्मिन्नपि मते तस्य सर्वाशाभिमुखत्वस्याप्राप्तेविधित्वाव्याघातात् । २७। मातृणामिति। एतेन मातरो दक्षिणदिङ्मुखा उत्तरदिङ्मुखा वा कार्या इति
देवता-८
For Private And Personal Use Only