________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् तस्याङ्गुलप्रमाणेन द्वयङ्गुलं गोलकं भवेत् ।। कला च तत्समा प्रोक्ता द्वाभ्यां तु भागमे(ए?)व च ॥२॥
[तालमानकथनम् ] एभिरेव त्रिभिर्भागस्तालमानं प्रकीर्तितम् । एकतालादि वक्ष्यामि यथा भवति नान्यथा ॥३॥ कचिच्च मानाङ्गलं प्रतिमापरिमाणेनापि निर्णीयते । तथा च
_ 'स्वैरङ्गलप्रमाणैादश विस्तीर्णमायतञ्च मुखम्' (अ० ५७, ४ श्लो०) इत्यादिवृहत्संहितावचने 'स्वैरित्यस्य विवरणप्रसङ्गेनोक्तमुत्पलभट्ट:-“यस्मात् काष्ठात् पाषाणादिकाद्वा प्रतिमा क्रियते तदैर्घ्यं पीठप्रमाणविवर्जितं द्वादशभागविभक्तं कृत्वा तत्रैको भागो नवधा कार्यः, सोऽङ्गलसंज्ञा भवति । यस्मादष्टाधिकमङ्गलशतं प्रतिमाप्रमाणं वक्ष्यति (अ० ५७, ३० श्लो०)। प्रतिमायाः 'स्वैरात्मीयैरङ्गलप्रमाणैः” इत्यलं प्रसङ्गादागतस्य प्रपञ्चनेन ।।
२। तस्येति । असमर्थमपीदं पदमगतिकतया 'अङ्गलप्रमाणेने त्यस्यैकदेशेनाङ्गलपदेन सामामाधिकरण्येनान्वीयते। तथा च तस्य प्रक्रान्तस्याङ्गलस्य प्रमाणेनेत्यर्थः । तत्समेति गोलकसमा इति । द्वयङ्गलमानेत्यर्थः । द्वाभ्यामिति कलाभ्यां गोलकाभ्यां वा भागो भवति, अतस्तस्य चतुरङ्गलं मानमित्यर्थः । तदुक्तं समराङ्गणसूत्रधारे
द्ववङ्गलो गोलको ज्ञेयः कलां वा तां प्रचक्षते ।
द्वे कले गोलको (वाही ? वा द्वौ) भागो मानेन तेन तु ॥ (अ०७५, ३ श्लो०) ३। एभिरिति । एतादृशैर्भागैस्तालमानम् एकतालस्य परिमाणं भवतीति शेषः । एवञ्च द्वादशभिरङ्गलैरेकस्तालो भवतीत्यर्थः। तदुक्तं शुक्रनीतिसारे
__स्वस्वमुष्टेश्चतुर्थोऽशो ह्यङ्गलं परिकीर्तितम् ।
तदङ्गलादशभिर्भवेत्तालस्य दीर्घता॥ इति । ( अ० ४, प्र० ४, ८२ श्लो०) इदमत्र विवेचनीयम्-द्वादशाङ्गलं सालस्य परिमाणमिति स्थिते दशतालप्रतिमा विंशत्यधिकशताङ्गलपरिमाणा भवति। दशतालप्रतिमा च
दशतालः स्मृतो रामो बलिवैरोचनिस्तथा ।
वराहो नारसिंहश्च ... ... ॥ (अ० २५९, १-२ श्लो०) इत्येनेन मत्स्यपुराणे उक्ता, ग्रन्थकृता चोपरिष्टात्
दशतालैर्भवेद्रामो बलिवैरोचन(नि ? )स्तथा।
सिद्धाधव जितेन्द्राश्च ऊर्खास्ते च प्रकीर्तिताः ॥ (अ० २, ९ श्लो०) इत्यनेन वक्ष्यते । एषामङ्गुलीसंख्याऽप्युक्ता बृहत्संहितायाम्
दशरथतनयो रामो बलिश्न वैरोचनिः शतं विंशम् । द्वादशहान्या शेषाः प्रवरसमन्यनपरिमाणाः ॥ इति (अ० ५७, ३० श्लो०)
For Private And Personal Use Only