SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org કરે क्रम ा दशगुणमिति । एतच्चिन्त्यम्, पूर्वोद्धृतवृहत्संहितादिवचनेष्वष्टभिः परमाणुभी रज इत्यादिक्रमेणाष्टगुणवृद्वेरेव श्रवणात् । शिल्परत्त्रपूर्वभागे - द्वितीयाऽध्यायः Acharya Shri Kailassagarsuri Gyanmandir वोदरैः षड्गुणैर्वा सप्तभिर्वाऽधमादिकम् । क्रमादष्टगुणैर्वाऽथ मानाङ्गुलमिति स्मृतम् ॥ (अ० २, ३ लो०) इति मानविकल्पमुपदर्शयताऽपि तद्ग्रन्थकृता दशगुणस्यानुल्लेखात् । एतेनैतन्मतसम्मतश्चतुर्विंशत्यङ्गुलकः करः क्रमादष्टगुणमानस्वीकर्त्ती मते पडङ्गुलेनाधिको भवतीति ज्ञेयम् । तथा च एकस्मिनङ्गुले यवयवृद्ध्या चतुर्विंशत्यामङ्गलेषु अष्टचत्वारिंशद्यववृद्धिर्नियता, ते चाष्टचत्वारिंशद् यवाः पङ्गुलम् इति तेन सह मिलनात्रिंशदङ्गुलः करो भवति । सत्यपि प्रकारविरोधे नेदमपि करमानमप्रमाणम्, तथा च शिल्परलपूर्वभागे अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः । द्वयं हस्तमुद्दिष्टं तच किष्कुरिति स्मृतम् । एकैकाङ्गुलवृद्धयाऽतो भवन्त्यष्टौ कराः स्फुटम् ॥ प्राजापत्यं धनुर्मुष्टिश्वापग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यञ्च प्रकीर्त्तितम् । इत्थमेकोत्तर त्रिंशदङ्गुलान्ताः कराः स्मृताः ॥ ( अ० २, ९-११ श्लो० ) इत्येकशिलान्तमपि करमाह । तस्मान्मतान्तरमिदम् इति ज्ञेयम् । जिनसंख्येरिति । जिनाश्रतुविशतिः, चतुर्विंशत्याऽङ्गुलैः करो हस्त इत्यर्थः । तथा च बृहत्संहितायाम् (अ० ५७, २श्लो०) उत्पल भट्टष्टतवचनम् - तस्माद् रजः कचाग्रञ्च लिक्षा यूका यत्रोऽङ्गलम् । क्रमादष्टगुणं ज्ञेयं जिनसंख्याङ्गुलैः करः ॥ इति । तस्मादिति परमाणोः, तस्यैष तत्र प्रकृतत्वात् । अङ्गुलस्य च मानाङ्गुलं मात्राङ्गुलम् इति द्वौ भेदौ । अधस्ताद् यदुक्तं तन्मानाङ्गलम् । मात्राङ्गलमुक्तं शिल्परलपूर्वभागे इत्युक्तम् । तद्भर्त्तुर्दक्षिणकरमध्यमामध्यपर्वणः । दैर्ध्य मात्राङ्गलं श्रेष्ठं नीचं तदव्याससम्मितम् ॥ इति ( अ० २, ८ लो०) अस्यार्थः: - कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गलेर्मध्यपर्वणो यद् दैर्घ्यं तच्छ्रेष्ठं मात्राङ्गुलम्, तस्यैव मध्यपर्वणो विस्तारसम्मितञ्च कनिष्टं मात्राङ्गलम् इति । अनयोश्च कर्मभेदे विनियोगभेदमाह तत्रैव मनाङ्गुलैः केवलमेव कुर्याद देवालयादीनि गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिप्यते बुधैः ॥ इति (अ० २,१७ लो०) अत्र 'देवालयादीनि ' इत्यादिपदादेव प्रतिमानामपि ग्रहणम् । काश्यपशिल्पेऽपि - 'मानाङ्गुलन्तु वा प्रोक्तं पुरप्रासादमानकम्' (अ० ५०, ३७ श्लो० ) For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy