________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयोऽध्यायः
४५
एवञ्च रामादीनां प्रमाणं दश तालास्ते च विंशत्यधिकं शतमङ्गुलय इत्यायातम् । एतेन - 'उत्तमं दशतालं स्याच्चतुर्विंशच्छताङ्गुलम्'
( शि० उ० ४ अ० ३७ श्लो०, काश्यप० ५० अ० ७७ लो० ) इति यच्छ परल-काभ्यपशिल्पयोरुक्तं तच्चिन्त्यम् । एतन्मते तालादीनामुत्तममध्यमाधमभेदेन वैविध्यमुक्तम्, तथा च काश्यपशिल्पे पूर्वोद्धृतात् परम्
मध्यमं दशतालं स्याद् भानुपङ्क्तयङ्गुलं भवेत् । कलाधिकशताङ्गुल्यमधमं दशतालकम् । द्वादशशतं भागं नवतालोत्तमं भवेत् ॥
अष्टोत्तरशतांशन्तु मध्यमं नवतालकम् । कन्यसं नवतालं स्याद द्वेधा ( स्याद्वेदा ) धिकशतं भवेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
तालं प्रत्येवमेवं तु क्रमाद् वेदाङ्गुलं हरमू (अ० ५०, ७७-८० लो० )
इत्युक्तम् । शिल्परत्रोत्तरभागेऽपि यथोक्तार्थकादर्द्धत्रितयात् परम्
'तालं प्रत्येवमेवन्तु क्रमाद वेदांशहानित: ' ( अ० ४, ३८ श्लो० ) इत्युक्त्वा सर्वेषामेव तालानां चतुश्चतुरङ्गलहान्या उत्तममध्यमाधमत्वं प्रतिपादितम् । तत्र मत्स्यपुराणे यद्दशताल प्रमाणत्वमुक्तं रामादीनां तन्मध्यमं दशतालमादायैवेत्यभ्युपगमेन जातेऽपि कथञ्चित् समाधाने, बृहत्संहितायां 'द्वादशहान्ये ' ( अ० ५७, ३० श्लो० )त्यादि यदुक्तं तेन त्वसामञ्जस्यं दुष्परिहरमेव । 'द्वादशहान्ये 'त्यादिपरार्द्धस्य त्वयमर्थः - शेषा अन्याः प्रतिमा द्वादशान्या द्वादशकद्वादश क हीनत्वेन प्रवरसमन्यूनपरिमाणा भवन्ति । विंशत्यधिकादङ्गुलशताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शतमङ्गलानां प्रतिमा प्रधाना भवति । ततोऽपि द्वादशकमपास्य पण्णवत्यङ्गुलसमा मध्यमा प्रतिमा, ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवतीत्यर्थः एवमेवोत्पलभट्टाः । एतच परिमाणं काश्यपशिल्पादिमते मध्यमनवतालादिसप्ततालान्तप्रतिमाया इति ज्ञेयम्, मध्यमनवतालस्याष्टाधिकशताङ्गुलत्वादन्ते सप्ततालस्य चतुरशीत्यङ्गुलत्वाच्च । परं सप्तभिस्तालैर्देवप्रतिमाया विधानं नोपलभ्यते, तैः 'पिशाचाः सप्तमेन तु' ( अ० ५०, ८७ श्लो० ) इत्यादिना पिशाचानामेघ काश्यपशिल्पे कर्तव्यतोपदेशात् । समराङ्गणसूत्रधारेऽपि -
देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् | त्रिंशद्भागायतं चैतद् विदध्याचित्रशास्त्रवित् ॥
इति भागमानेन यत् प्रतिमाया मानमुक्तम्, तेनाऽपि विंशत्यधिकशताङ्गुलमेव प्रतिमायाः परिमार्ण भवति, भागस्य चातुराङ्गुल्याभिधानात् बृहत्संहितायाञ्च देवप्रतिमाया एव चतुरशीत्यङ्गुलमानायाः कनीयस्त्वकथनाच्च ।
For Private And Personal Use Only