________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः पीठयान-परोवारध्वंसे सति यथाक्रमम् । स्थानवाहनभृत्यानां नाशो भवति निश्चितम् ॥३२॥ प्रतिमा काष्ठलेपाश्मदण्डचित्रादिसंग्रहे। मानाधिक-परीवाररहिता नैव पूज्यते ॥३३॥ अनेत्री नेत्रनाशाय स्वल्पा स्याद् भोगवर्जिता। अर्थहृत् प्रतिमोत्ताना चिन्ताहेतुरधोमुखी ॥३४॥
[शुभप्रतिमालक्षणम्] सम्पूर्णावयवा या स्यादायुर्लक्ष्मीप्रदा सदा। एवं लक्षणमासाद्य कर्तव्या देवता बुधैः ॥३५॥
[अथाद्भुतम्] यानबेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये।
तेषां सक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः॥ ३६॥ ३२ । पीठयानेत्यादि। प्रतिमायाः पीठस्य यानस्य परीवारस्य च ध्वंसे माशे सति कर्तुरपि यथाक्रमं स्थानवाहनभृत्यानां निश्रितं नाशो भवति । तथा च पीठध्वंसे स्थानमाशः, यानध्वंसे वाहननाशः, परीवारध्वंसे च भृत्यनाशो भवतीत्यर्थः।
३३। प्रतिमेति। काष्टादिनिर्मितप्रतिमानां संग्रहे इत्यर्थः। मानाधिकेति। पूर्व प्रतिमाया यन्मानमुक्तं ततोऽधिकपरिमाणा, परीवाररहिता यस्याः प्रतिमाया यावन्तः परीवाराः शास्त्रदृष्टास्ततोऽल्पपरीवारविशिष्टा, ततश्चानयोः कर्मधारयः। अथवा मध्यमणिन्यायेन परीधारपदस्योभयत्रान्वयः, तथा च मानाधिकपरीवारा परीवाररहिता चेत्यायातम् । एवञ्च-यस्याः प्रतिमायाः परीवाराः संख्यातो दैर्ध्या दितश्च यथानिर्दिष्टपरिमाणाधिकपरिमाणवन्तः, यस्याश्चैकान्ततः परीवारा एव न सन्ति, ते उभे अपि नैव पूजयेदित्यर्थः । ३५ । सम्पूर्णावयवेति। तथा च मात्स्ये
सम्पूर्णावयवा या तु आयुर्लक्ष्मीप्रदा सदा ।
एवं लक्षणमासाद्य कर्तव्यः परमेश्वरः॥ (अ० २५९, २१-२२ श्लो०) इति किञ्चिदुभिन्नानुपूर्व्याऽयं श्लोकः। परमेश्वरो देवप्रतिमा।
३६। यानत्रेरिति । यानुत्पातान् गर्गो वृद्धगर्गः अत्रेः समीपे प्रोवाचेत्यन्वयः। तथा च मत्स्यपुराणे मनोरभूतशान्त्यादिपृच्छायां मत्स्यवचनम्
देवता-४
For Private And Personal Use Only