SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মথনাথ: धातुरत्नविलेपोत्था व्यङ्गाः संस्कारयोग्यकाः। काष्ठपाषाणजा भग्नाः संस्कारार्हा न देवताः ॥२५॥ [बहिरायतनस्थाप्या देवताः] भैरवः शस्यते लोके प्रत्यायतनसंस्थितः। न मूलायतने कार्यो भैरवस्तु भयङ्करः । नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥२६॥ [अशुभप्रतिमालक्षणम् ] नाधिकाङ्गा न हीनाङ्गाः कर्तव्या देवताः क्वचित् । धातुजा रत्नजां वापि अगाधे वा जलेऽम्बुधौ। यानमारोप्य जीर्णाङ्गां छाद्य वस्त्रादिना नयेत् ॥ ४ ॥ वादिनः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् । यत्प्रमाणा च यद्दव्या तन्मानां स्थापयेदिने । कृपवापीतडागादेर्जीणोद्वारे महाफलम् ॥ ५ ॥ शिल्परने च- दोषे लघुतरे बिम्बं नैव त्याज्यं कदाचन । बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥ तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते । वैरूप्यं जायते यस्य तत्त्याज्यं प्रायशो भवेत् ॥ अगुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः । महादोषसमायुक्त सान्निध्यं लक्ष्यते यदि । तथैव बढ़ा संशोध्य प्रायश्चित्तं समाचरेत् ॥ २६। भैरव इत्यादि। भैरवो कालभैरवो वटुकभैरवस्त्रिपुरभैरवश्न महादेवस्य मूर्तिविशेषः, प्रत्यायतनसंस्थितः वास्तुबहिर्वाटीस्थः शस्यते प्रशस्तो भवति, बहिरावास एव स्थापनीय इत्यर्थः। मूलायतने न कार्यो न स्थापनीयः। नारसिंहो वराहो वा तथा अन्येऽपि भयङ्करा देवता मूलायतने न कार्याः। तदुक्तं मत्स्यपुराणे समानानुपूर्व्या भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः॥ नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥ इति । (२५९अ० १४-१५ श्लो०) For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy