SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org देवतामूर्त्तिप्रकरणम् अतीताब्दशता या स्यान्मूर्त्तिः स्थाप्या महत्तमैः । खण्डिता स्फुटितायर्या अन्यथा दुःखदायिका ॥२४॥ स्फटिकं सूर्यकान्तञ्च चन्द्रकान्तमिति त्रिधा । स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥ श्रियं कामं तथाssरोग्यमृद्धिं पुत्रं जयं सुखम् । लभते पद्मरागादिविम्वानां क्रमशोऽर्चनात् ॥ बिम्बवृक्षा, यथा चन्दनं देवदारुच शमी पिप्पलशिंशपाः । खदिरासनमारमधूका वकुलस्तथा ॥ पद्मकं कर्णिकारञ्च विप्रादीनां त्र्यं त्रयम् । क्रमाद्दारवबिम्बानां विज्ञेयास्तरवः शुभाः ॥ २४ । इदानीं जीर्णोद्वारविधिं संक्षेपेण कथयिष्यन् आदौ जीर्णत्वेऽप्यपरित्याज्यां प्रतिमामाह – अतीताब्दशतेत्यादि । महत्तमैर्महापुरुषैः स्थाप्या स्थापनयोग्या या मूर्त्तिः देवताविम्बम् अतीतान्दशता विगतशतवर्षा सती खण्डिता भग्ना, स्फुटिता विदीर्णापि सा अर्ध्या पूजनीया, अन्यथा नोचेत् पूजिता स्यात् दुःखदायिका अशुभप्रदा भवेदिति शेषः । शतस्य वर्षाणामपस्फुटिता वा स्यात्, तथापि तां पूजयेदित्युक्तमनेन । यदि प्रतिमा व्यक्तिविशेषप्रतिष्ठितानां मूर्तीनामत्याज्यतामाह शिवलिङ्गमधिकृत्याभिपुराणम्असुरैर्मुनिभिर्गोत्रैस्तन्त्रविदभिः प्रतिष्ठितम् । जीर्ण वाऽप्यथवा भग्नं विधिनापि न चालयेत् ॥ (अ० १०३, १९ श्लो०) भङ्गविशेषे ग्राह्यग्राह्यत्वमुक्तं ग्रन्थकारेण तस्यैव रूपमण्डने अङ्गप्रत्यङ्गनां तु मूर्तिं धीमान् विसर्जयेत् । नखाभरणमालास्त्रभग्नां तां न विसर्जयेत् ॥ शुक्रनीतिसारे च देवालये मानहीनां मूर्त्तिं भग्नां न धारयेत् । अग्निपुराणेऽपि सप्तषष्टितमाध्याये Acharya Shri Kailassagarsuri Gyanmandir इति । जीर्णोद्धारविधि वक्ष्ये भूषितां स्नपयेद् गुरुः । अचलां विन्यसेद गेहे अतिजीणां परित्यजेत् ॥ १ ॥ व्यङ्गां भग्नाञ्च शैलाढ्यां न्यसेदन्याञ्च पूर्ववत् । संहारविधिना तत्र तत्त्वान् संहत्य देशिकः ॥ २ ॥ सहस्र नारसिंहेन हुत्वा तामुद्धरेद् गुरुः । दारवीं दारयेद वह्रौ शैलजां प्रक्षिपेजले ॥ ३ ॥ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy