SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः [आसनस्थोत्तमप्रतिमापरिमाणम् ] हस्तादेर्वेदहस्तान्ते षड्वृद्धिः स्यात् षडङ्गुला। तदूर्द्ध दशहस्तान्ता व्यङ्गुला वृद्धिरिष्यते। एकाङ्गला भवेद् वृद्धिर्यावत् पञ्चाशहस्तकम् ॥१३॥ प्रासादस्य प्रासादस्य प्रतिमाया अङ्गुलिमानम् प्रतिमाया ___अगुलिमानम् हस्तमानम् हस्तमानम् ४४ ... ... १३ । इदानीमासनस्थमूर्तीनां परिमाणमुच्यते । षडङ्गला आसनस्था मूर्तिः हस्तादेरेकहस्ताद वेदहस्तान्ते चतुर्हस्तपर्यन्तप्रासादे पबृद्धिः षट् षट् वृद्धिर्यस्याः प्रतिमायास्तादृशी स्यात् । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्ते अर्थात् एकहस्तप्रासादे मूर्तिः पडङ्गला, द्विहस्तप्रासादे द्वादशाङ्गुला, त्रिहस्ते अष्टादशाङ्गुला, चतुर्हस्ते चतुर्विशत्यङ्गुला भवेत् । तदूर्द्ध पञ्चहस्तप्रासादमारभ्य दशहस्तान्ता त्र्यमुला वृद्धिरिष्यते। तथा हि-पञ्चहस्तप्रासादे सप्तविंशत्यगुला मूर्तिः, षड्ढस्तप्रासादे त्रिंशदङ्गला, सप्तहस्ते त्रयस्त्रिंशदङ्गला, अष्टहस्ते पत्रिंशदङ्गला, नवहस्ते ऊनचत्वारिंशदगुला, दशहस्ते द्विचत्वारिंशदङ्गला मूर्तिर्भवेदित्यर्थः । ततः पञ्चाशहस्तकं यावत् • एकादशहस्तादिपञ्चाशद्धस्तान्तमित्यर्थः, एकाङ्गला प्रतिहस्ते एकैकाङ्गला वृद्धिर्भवेत् । तेन एकादशहस्तप्रासादे त्रिचत्वारिंशदङ्गला मूर्तिः, द्वादशहस्ते चतुश्चत्वारिंशदङ्गाला मूर्तिः, एवंक्रमेण वृद्धवा पञ्चाशद्धस्तप्रासादे द्वाशीत्यङ्गला मूतिर्भवेदित्यर्थः । इत्यासनस्था द्वितीयाः प्रतिमाः पञ्चाशत्संख्याकाः । प्रासादपरिमाणेन आसनस्थप्रतिमापरिमाणम् । प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् अङ्गुलिमानम् २७ प्रासादस्य हस्तमानम् cw For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy