________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमोऽध्यायः
[ प्रासादमानेनो स्थज्येष्ठप्रतिमालक्षणम् ] एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुला । दशाङ्गुला ततो वृद्धिद्धस्तचतुष्टयम् ॥११॥
Acharya Shri Kailassagarsuri Gyanmandir
[ स्वप्रतिमाया मध्यमाधमभेदकथनम् ] दङ्गुला दशहस्तान्ता शतार्द्धान्ताऽङ्गुलस्य च । अतो विंशदशांशोना मध्यमार्चा कनीयसी ॥१२॥
१३
एवञ्च तत्रैव ग्राह्यग्राह्यवृक्षानभिधाय तदभिमन्त्रणमाह
अर्थस्य त्वं देवस्य परिकल्पितः ।
नमस्ते वृक्ष पूजेयं विधिवत् संप्रगृह्यताम् ॥
urite भूतानि वसन्ति तानि वलिं गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ इति (अ०५८, १०-११ श्लो०) गृहकाeाहरणप्रकारोऽप्येतदनुरूपः समराङ्गणसूत्रधारे परिलक्ष्यते । तत्राहरणमन्त्रस्तु - अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि ।
कल्पनं वर्त्तयिष्यामि क्रियतां वासपर्ययः ॥ (अ० १६, २७ लो०)
तदेतत् सर्वं शेषतो जिज्ञासुभिः समराङ्गणसूत्रधार - ( अ० १६) काश्यपशिल्प - ( अ० ४९ ) मयत - (अ० ३३) बृहत्संहितास (५८ वनसम्प्रवेशाध्याये ) द्रष्टव्यम् ।
For Private And Personal Use Only
११ । अथ प्रथमं प्रासादमानेन ऊस्थायाः ( दण्डायमानायाः ) प्रतिमायाः प्रमाणम् उच्यते - एकहस्त इत्यादिना । एकहस्ते प्रासादे मूर्त्तिरेकादशाङ्गुला भवेत् । ततो हस्तचतुष्टयं यावत प्रतिहस्ते दशाङ्गुला वृद्धिः । अर्थात्, द्विहस्ते प्रासादे मूर्त्तिरेकविंशत्यङ्गुला, त्रिहस्ते एकत्रिंशदङ्गुला, चतुर्हस्ते एकचत्वारिंशदङ्गुला भवेत् ।
१२ । ततो दशहस्तान्ता द्वाङ्गला वृद्धिः, अर्थात् पञ्चहस्तादिदशहस्तान्तप्रासादेषु प्रति द्वाङ्गला वृद्धि:, तेन पञ्चहस्तप्रासादे त्रिचत्वारिंशदङ्गुला प्रतिमा, षड्ढस्तप्रासादे पञ्चचत्वारिंशदङ्गुल, सप्तहस्ते सप्तचत्वारिंशदङ्गुला, अष्टहस्ते ऊनपञ्चाशदङ्गला नवहस्ते एकपञ्चाशदङ्गुला, दशहस्ते त्रिपञ्चाशदङ्गुला प्रतिमा स्यादित्यर्थः ।
शतार्द्धान्ताङ्गुलस्य च - शतार्दान्ता शतार्द्धहस्तान्ता वृद्धिरित्यस्य विशेषणम् । वृद्धिरङ्गुलस्य एकाङ्गलस्य ; एकादशहस्तादिपञ्चाशन्दस्तान्तप्रासादेषु प्रतिहस्ते एकैकाङ्गुला वृद्धिरित्यर्थः । तेन च एकादशहस्तप्रासादे चतुःपञ्चाशदङ्गुला प्रतिमा, द्वादशहस्ते पञ्चपञ्चाशदङ्गला, त्रयोदशहस्ते