SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् उल्कापातं दिशां दाहं महावातप्रवर्त्तनम् । अशुभान्यन्तरीक्षाणि ... ... ॥ इत्यादि । (अ० ४९, २०-२५ श्लो०) शुभशकुनञ्चेद् गच्छेदशुभञ्चेन्न गच्छेदित्याशयः। तदुक्तं काश्यपे "शुभञ्चेद् गमनं कुर्यादशुभञ्चेद विवर्जयेत्” इति । (अ० ४९, २८ श्लो०) कालातिपाताक्षमे कर्मण्यशुभशकुनदर्शने प्रतिप्रसवमप्याह तत्रैव अशुभे त्वनिमास्तीर्य शिवेनैव शताहुतीः। समिदाज्योदनैः कुर्यान्नागान्नं नागभूषणम् ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिल्पि च । इति । (अ० ४९, २९-३० श्लो०) प्रतिमेति । एतदुपलक्षणम् , लिङ्गपीठाधुचितशिलाद्याहरणेऽप्येतद् योज्यम् । तथा च काभ्यपे आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् । दिव्यान्तरीक्षभौमानि निमित्तान्युपलक्षयेत् ॥ (अ० ४९, १९ श्लो०) इति सामान्यतः शिलाहरणमुक्तम् । मयमते च प्रशस्तपक्षनक्षत्रे मुहूत्ते करणान्विते । गच्छेलिङ्ग समुद्दिश्य वनं चोपवनं गिरिम् ॥ ... ... ... ... निमित्तैः शकुनर्योग्यैः सह मङ्गलशब्दकैः ॥ इति । (अ० ३३, २०-२२ श्लो०) अत्र लिङ्गमित्युपलक्षणमर्चादीनाम् । वनं चोपवनमिति प्रतिमोचितद्मोद्देशकथनम् , गिरिमिति लिङ्गाद्युपयोगिशिलास्थानकथनम् । शिलाग्रहणमन्त्रमाह तत्रैव ॐ अपक्रामन्तु भूतानि देवता सगुह्यकाः । युष्मभ्यन्तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ कमैतत् साधयिष्यामि क्रियतां व[वा ?]स्तुपर्ययः। इति ।। (अ० ३३, २७-२८ श्लो०) प्रतिमोचितकाष्ठग्रहणे विशेषमाह बृहत्संहितायाम् कर्तुरनुकूलदिवसे दैवज्ञविशेषिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिक वनसम्प्रवेशः स्यात् ॥ इति । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy