________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विरतो भवति, किंभूतो मेघावी ? तपस्वी, पुनः किंभूत ? अत्युत्कर्षोऽहं तपस्वीत्युत्कर्षरहितः ४२. एवंभूतस्य तस्य किं स्यादित्याह तस्सेति-तस्य साधोरित्थं भूतस्य यूयं कल्याणं गुणानां संपद्रूपमर्थात्संयमं पश्यत ? किंभूतं कल्याणं ? अनेकैः साधुभिः पूजितं, कोऽर्थः ! सेवितमाचरितं पुनः किंभूतं कल्याणं ? विपुलं विस्तीर्ण विपुलमोक्षावहत्वात् पुनः किंभूतं कल्याणं ! अर्थसंयुक्तं तुच्छतादिपरिहारेण निरुपमसुखरूपं कथं ! मोक्षसाधकत्वात्, यूयं शृणुत मम कथयत इति शेषः ४३.
तस्स परसह कल्लाणं अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं कित्तइस्सं सुणेहमे ४३. एवं तु गुणप्पेही अगुणाणं च विवज्जए । तारिसो मरणंते वि आराहेइ संवरं ४४.
आयरिए आराहेइ समणे आवि तारिसो। गिहत्था वि णं पूयंति जेण जाणंति तारिसं ४५.
एवंविधश्व स साधुः किं करोतीत्यत आह- एवमिति एवं तुक्तप्रकारेण स साधुस्तादृशः सन् शुद्धाचारः सन् मरणान्तेऽपि चरमकालेपि संवरं चारित्रमाराधयति सदैव कुशलबुड्या तद्वीजपोषणात, किंभूतः साधुः १ गुणप्रेक्षी गुणानप्रमादादीन् प्रेक्षत इत्येवंशीलो यः स गुणप्रेक्षी, तथा पुनः किंभूतः ? अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन विवर्जकस्त्यागी ४४ पुनः स किं करोति तं च गृहस्थाः किं कुर्वन्तीत्याह - आयेति तादृशो गुणवान् साधुराचार्यानाराधयति शुद्ध
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir