________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परित्यागे साक्षिणः केवल्यादयो यस्य तत् ससाक्षि केवलिप्रतिषिद्धमित्यर्थः, अनेन सर्वथा प्रतिषेध उक्तः सदा साक्षिभावात्, किमिति न पिवेदित्याह स भिक्षुः किं कुर्वन् ? आत्मनो यशः संयमं संरक्षन्, अन्ये त्वाचार्या एतत्सूत्रं ग्लानापवादविषयमल्पसागारिकविधानेन व्याचक्षते. ३६. सुरादिपाचैव दोषमाह - पियेति - एको धर्मसहापरहित एकान्तस्थितो वा कोऽप्यधर्मी पिबति, किम्भूत एकः ? चौर, भगवता यन्त्र दत्तं तस्य ग्रहणादन्योपदेशयाचनादा, पुनः किं कुर्वन् ! न मां कोऽपि जानातीति विभावयत्रिति शेषः तस्येत्थंभूतस्य भो शिष्या यूयं दोषानिहलोकसम्बधिनः परलोकसम्बन्धिनश्च पश्यत १
पियए एगओ तेणो न मे कोइ विआणइ । तस्स पस्सह दोसाई निअडिं च सुणेह मे ३७.
ई डिआ तस्स माया मोसं च भिक्खुणो । अयसो अ अनिव्वाणं सययं च असाहुआ ३८.
Acharya Shri Kailassagarsuri Gyanmandir
च पुनर्निकृतिं मायारूपां शृणुत मम कथयत इति शेष: ३७, पुनस्तस्य किं भवति तदाह - बहईति तस्य भिक्षोः) | शौण्डिकात्यन्ताभिष्वङ्गरूपा वर्धते, पुनर्मायामृषावादं च माया च मृषावादश्च तस्य वर्धते, प्रत्युपलब्धस्यापला पेनेदं च भवपरम्परा हेतुरनुबन्धदोषात्, तथा अयशश्चं स्वपक्षपरपक्षयोर्मध्ये तथा तस्यालाभेऽनिर्वाणमतृप्तिः दुःखं सततं वर्धते, च पुनरसाधुता वर्धते लोके व्यवहारतः चारित्रपरिणामवाधनेन परमार्थतः ३८. पुनस्तस्य किं स्यादित्याह -
For Private and Personal Use Only