________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सालुअमिति - शाकं वा उत्पलकन्दं विरालिकां पलाशकन्दरूपां पर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाला प्रसिद्धौ, तथा मृणालिकां पद्मिनीकन्दोत्थां सर्षपनालिकां सिद्धार्थमञ्जरीं, तथा इक्षुखण्डं, एतच्छालूकादिसप्तकं किंभूतं ? अनिर्वृतं सचित्तं, १८. पुनः किं किं तदाह - तरुणेति - वृक्षस्य चिश्चिणिकादेर्वा, तृणस्य वा मधुरतृणादेः, अन्यस्यापि हरितस्यार्जकादेश्व, तरुणकं वा प्रवालमामकमपरिणतं सचित्तं संयतः पूर्वगाथोक्तं शालूरादि सप्तकं चिञ्चिणिकादित्रयस्य तरुणप्रवालं च सालु वा विरालिअं कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं उच्छुखंडं अनिव्वुडं १८. तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स आमगं परिवज्जए १९. तरुणिअं वा छिवाडिं आमिअं भजिअं सई । दिंतिअं पडिआइक्खे न मे कप्पड़ तारिसं २०. तहा कोलमस्सिन्नं केलुअं कासवनालिअं । तिलपप्पडगं नीमं आमगं परिवज्जए २१.
सचित्तं परिवर्जयेत्, १९. पुनः संयतः किं कुर्यात्तदाह - तरुणीति — भिक्षुरेवंविधां स्त्रियं प्रतीति वदेत्, इतीति किं ? न मे ममैतादृशं भोजनं कल्पते, किं कुर्वतीं स्त्रियं ? छिवाडिं मुद्गादिफलिं, किंविशिष्टां छिवाडिं ? तरुणं वा असंजातां, तथा पुनर्भर्जितां पुनः किंभूताम् ? आमामसिद्धां सचेतनां सकृदेकवारं ददतीम् २०. पुनः साधुः किं वर्जयेत्तदाह-तहेति साधुः कोलं बदरं परिवर्जयेत्, किंभूतं कोलम् ? अस्विन्नम्, अस्विन्नमिति, पदस्यार्थः सर्वत्र योज्यः, पुनस्तिलपर्पटकं पिष्टतिलमयं, तथा
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir