________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश
अध्य०५.
दीपि.
॥४२॥
शनमूनोदरतादि वा तपोऽपि भविष्यतीति सम्पग्विचिन्तयेत्. ६. कालयतनोक्ता, अथ क्षेत्रयतनामाह-तहेति-भिक्षुस्तदृजुकं तेषां प्राणिनामभिमुखं संमुखं न गच्छेत्, तेषां केषां ? ये प्राणाः प्राणिनो भक्तार्थं बलिमाभृतकादिषु समागता भवन्ति, कथं ? तेषां सन्त्रासेनान्तरायदोषो भवेत, तर्हि किं कुर्यात् ? यतमेव पराक्रामेत्तेषामुद्धेगमनुत्पादयन्, किंभूताः प्राणिनः, तथैवोच्चा हंसादयः, अवचाः काकादयः, शोभनाशोभनभेदेन नानाप्रकाराः.७ पुनर्गोचरीगतः साधुः किं न कुर्यादित्याह-गोअरेति-साधु
तहेवुच्चावया पाणा भत्तहाए समागया । तंउज्जुअ न गच्छिज्जा जयमेव परक्कमे ७. गोअरग्गपविट्ठो अन निसीइज कत्थई। कहं च न पबंधिज्जा चिहित्ता ण व संजए ८.
अग्गलं फलिहं दारं कवाडं वा वि संजए । अवलंविआ न चिट्ठिजा गोअरग्गगओ मुणी ९. ॥ गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्टः सन् न निषीदेनोपविशेक्वचिद्देवकुलादौ, यतस्तत्र निषीदने संयमस्य घातो भवति, च पुनः
कथां धर्मकथादिरूपां न प्रवधीयात्प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणे एकदृष्टान्तकथने चानुज्ञामाह, ऐतदेवाह-किं कृत्वा ! |स्थित्वा, कालपरिग्रहेण संयतो यतिरेवं च क्रियमाणे अनेषणाद्वेषादिदोषप्रसङ्गो भवेत्. ८. क्षेत्रयतनोक्ता, अथ द्रव्ययतनामाह-अग्गलमिति-संयतो यतिरर्गला गोपुरकपाटादिसम्बन्धिनी, परिघं कपाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं १ अतएवाहेति क. पु.।
For Private and Personal Use Only