________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकाल इति-कोपि साधुरकाले भिक्षार्थं प्रविष्टः, अथाकालचारित्वेन भिक्षा न लब्धा, तदान्येन केनापि साधुना पृष्टः, भो भिक्षा त्वया प्राप्ता न वेति ? तदा स वदति कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षाप्राप्तिः ? तदान्यः साधुः पृच्छाकृत्तमकाल-| चारिणं वदति, हे भिक्षो ! त्वमकाले चरसि, कस्मात् ? प्रमादात् स्वाध्यायलोभादा,पुनस्त्वं कालं किमयं भिक्षाकालो न वेत्या|दिरूपं न प्रत्युपेक्षसे न जानासि, च पुनस्त्वकालचरणेनात्मानं कामयसि दीर्घभ्रमणेनोनोदरताभावेन च, च पुनः सनिवेश ग्रामादिकमवर्णवादेन गर्हसि, ततो भगवत आज्ञालोपेन दैन्यप्रतिपत्त्या च तव महान् दोषः सम्भाव्यते, तस्मादकालाटनं न!
अकाले चरिसी भिक्खू कालं न पिडिलेहिास । अप्पाणंच किलामेसि संनिवसंच गरिहसि ५. | •सइ काले चरे भिवखू कुज्जा पुरिसकारि। अलाभुति न सोइज्जा तवृत्ति अहिआसए ६
श्रेय इति. ५. ततः साधुः किं कुर्यादित्याह-सईति-भिक्षुः काले सति भिक्षाकाले जाते सति चरेद्भिक्षार्थ गच्छेत्. अन्ये पुनः | |'सइकाले' इत्यस्यैवमर्थ कुर्वन्ति-स्मृतिकालो भिक्षाकालो यत्र भिक्षुः स्मर्यते, तस्मिन् पुनर्भिक्षुः पुरुषकारं जवाबले सति वीर्याचारं न लड्पयेत्, तत्र चालाभे सति भिक्षाया अप्राप्तौ सत्यां भिक्षुर्न शोचयेत् किन्त्वेवं भावयेत्-मया भिक्षा न लब्धा परं वीर्याचारस्त्वाराधितः, वीर्याचारार्थमपि भिक्षाटनं न केवलमाहारार्थमेव, अतो न शोचयेत्, अपि तु तप इत्यधिसहेत, अन
For Private and Personal Use Only