SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ४१ ॥ ६ www.kobatirth.org समर्थः, तदा द्वितीयवेलामपि गोचरे भक्तपानं गवेषयेदित्यग्रिमगाथायाः सम्बन्धः किंभूतः क्षपकादिः ? 'सेज्जा निसीहियाए समावन्नो' शय्यायां वसतौ नैषेधिक्यां स्वाध्यायभूमौ अथवा शय्यैवासमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नः सन् किं कृत्वा ? अयावदर्थं भुक्त्वा, न यावदर्थमपरिसमाप्तमित्यर्थः णं वाक्यालङ्कारे. २. यद्येकवारं भुक्तेन न संस्तरेत्तदा किं कुर्यादित्याहतओ इति -पुष्टालम्बनः साधुस्ततः कारणे वेदनादावुत्पन्ने द्वितीयवारमपि भक्तपानं गवेषयेदन्वेषयेत्, अन्यथा यतीनामेकवारमेव भक्तगवेषणमुक्तं, केन ? विधिना, किंभूतेन विधिना, पूर्वोक्तेन, सम्प्राप्ते भिक्षाकाल इत्यादिना च पुनः अनेन वक्ष्य तओ कारणमुप्पण्णे भत्तपाणं गवेसए । विहिणा पुव्वउत्तेण इमेणं उत्तरेण य ३. काले निक्खमे भिक्खू कालेण य पडिक्कमे । अकालं च विवज्जित्ता काले कालं समायरे ४. Acharya Shri Kailassagarsuri Gyanmandir | माणलक्षणेनोत्तरेण. ३. तदेव वक्ष्यमाणलक्षणमाह- कालेणेति - भिक्षुः साधुर्वसतेः सकाशाद्विक्षायै निष्क्रामेत्, केन ? कालेन करणभूतेन, कः कालः १ यो यस्मिन् ग्रामादौ भिक्षायामुचितः पुनर्भिक्षुः कालेन तेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेन्निवर्तेत, पुनर्भिक्षुः काले भिक्षावेलायां कालं भिक्षां समाचरेत्, किं कृत्वा ? अकालं च वर्जयित्वा, कोऽकालः ? येन कालेन स्वाध्यायादि न सम्भाव्यते स किलाकालः, स्वाध्यायादीनि हि स्वाध्यायवेलायामेव क्रियन्ते, ४. अकाले गोचरीगमने दोषमाह For Private and Personal Use Only अध्य० ५. उ० २ ॥ ४१ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy