________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
, मुधाजीवीति दुर्लभमेतद्दर्शयति-दुल्लहेति-दुर्लभा एवंविधा दातारस्तथाविधभागवतवत् . मुंधाजीविनोऽपि दुर्लभास्तथाविधचे
ल्लकवत्, एतयोः कथानके वृत्तितो ज्ञेये. अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येतौ सुगतिं सिद्धिगतिं गच्छन्ति. || कदाचित्तस्मिन्नेव भवे कदाचिदेवलोकसुमानुषत्वप्रत्यागमनपरम्परया. ब्रवीमीति पूर्ववत्. १००. इति श्रीदंशवकालिकमबस्य शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः १. दुल्लहाओ मुहादाई मुहाजीवी वि दुल्लहा। मुहादाई मुहाजीवी दो वि गच्छति सुग्गइंति वेमि १००
पिंडेसणाए पढमो उद्देसो सम्मत्तो १. ___ अथ पिण्डैषणायाः प्रथमोद्देशे यदुपयोगि नोक्तं, तद् द्वितीयोदेशके दर्शयन्नाहपडिग्गहं संलिहिताणं लेवमायाइ संजए । दुगंधं वा सुगंधं वा सव्वं भुंजे न छड्डए १.
सेज्जा निसीहियाए समावन्नो अगोअरे । अयावयहा भुच्चा णं जइ तेण न संथरे २. पडिग्गहमिति-संयतः साधुर्दुर्गन्धि वा मुगन्धि वा भोजनजातं सर्व समस्तं भुञ्जीताश्रीयात् परं नोज्ज्ञत्, अत्र गन्धग्रहणं रसादीनामुपलक्षणं, कुतो नोज्ज्ञेत् ? उच्यते-संयमविराधनाभयात्, किं कृत्वा ? प्रतिग्रहं पात्रं सँल्लिह्य प्रदेशिन्या निरवयवं कृत्वा, कया? लेपमर्यादया आलेपं सल्लिह्य. १. विशेषमाह-सेजेति-यदि क्षपको ग्लानादि तेन भुक्तेन न संस्तरेन यापयितुं
For Private and Personal Use Only