________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मनःप्रीत्या, ततो यदि केचन धर्मबान्धवा इच्छेयुरङ्गीकुर्युस्तदा तैः सार्धमुचितसंविभागदानेन साधुर्भुञ्जीत. ९५ अथ कोऽपि | नेच्छेत्तदा किं कुर्यादित्याह — आहेति — अथ कोऽपि साधुर्नेच्छेत्तदा साधुरेकाकी रागादिरहितो भुञ्जीत, कथं भुञ्जीतेत्याहआलोकभाजने मक्षिकादीनामपोहाय प्रकाशप्रधाने भाजन इत्यर्थः यतः प्रयत्नेन तत्रोपयुक्तः, किं कुर्वन् ? अपरिशातयन, हस्तमुखाभ्यां कणमात्रमपि न त्यजन. ९६ अथ भोज्यमाश्रित्य विशेषमाह - तित्तगमिति संयत एवंविधमप्यशनादि मधुघृतमिव मधुघृतसमानं मृष्टमिति ज्ञात्वा भुञ्जीत, किंविशिष्टमशनादि ? तिक्तं वा एलुकवालुकादि, कटुकमाईतीमनादि,
अह कोइ न इच्छा तओ भुंजिज एक्कओ । आलोए भायणे साहू जयं अप्परिसाडियं ९६ - तित्तगं व कदुअं व कसायं अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं महु घयं व भुंजिज्ज संजए ९७. असं विरसं वावि सूइअं वा असूइअं । उल्ल वा जइ वा सुक्क मंथूकुम्मासभोअणं ९८.
कषायं वल्लादि, अम्बिलं वा अम्लं तक्रारनालादि, मधुरं क्षीरदध्यादि, लवणं वा प्रकृतिक्षारं, तथाविधशाकादि अन्यद्वा लवणोत्कटम्, एतल्लब्धंमागमे उक्तेन विधिना प्राप्तं, पुनः कीदृशम् ? अन्यार्थप्रयुक्तम्, अन्यार्थमक्षोपाङ्गन्यायेन देहार्थं परमार्थतो हि तत्साधकमिति कृत्वा मोक्षार्थं प्रयुक्तं, परं न वर्णाद्यर्थम् ९७ पुनः कीदृशमशनादीत्याह- अरसमिति -- एतादृशं भोजनं वर्तते, तस्याग्रिमगाथया सह योजना कार्या, किंभूतमशनादि भोजनम् ? अरसं रसवर्जितं हिंग्वादिभिरसंस्कृतं, पुनः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir