________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य० १.
दश दीपि.
आयावयाहीति-'आयावयाही' त्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय ? आतापनां कुरु ? उपलक्षणत्वाद्यथानुरूपमू Ke नोदरिकादितपोऽपि कुरु ? तथा त्यन सौकुमार्य सुकुमारत्वं परित्यज ? यतः सुकुमारत्वात्कामेच्छा प्रवर्तते, योषितां च
प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् काम उल्लङ्मय ? यतस्तैःकामैः कान्तैर्दुःखं कान्तमेव भवति,अत्र वणिज उदाहरणं ज्ञेयं वृत्तितः, अथान्तरकामक्रमणविधिमाह-छिन्धि देवं ? व्यपनय रागं ? सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवमनेन प्रकारेण प्रवर्तमानः सन् सुखी भविष्यसि क्व ? संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी | आयावयाही चय सोगमलं कामे कमाही कमिय खुदुक्खं । छिंदाहि दोसं विणएज रागं एवं सुही।
होहिसि संपराए ५. पक्खंदे जलियं जोइं धूमकेउंदुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ६. भविष्यसि ५. संयमगृहान्मनस एवानिर्गमार्थमिदं चिन्तयेत्-पक्खंद इति-प्रस्कन्दन्ति आश्रयन्ति, के ? ज्योतिषमग्निं, किंविशिष्टं ज्योतिष ? ज्वलितं ज्वालामालाकुलं, न तु मुर्मुरादिरूपं, पुनः किंविशिष्टं ज्योतिष ? धूमकेतुं, धूमचिह्न धूमध्वजम्, न उल्कादिरूपं, पुनः किंविशिष्टं ज्योतिष ? दुरासदं दुरभिभवं, चशब्दलोपान च इच्छन्ति वान्तं भोक्तुं परित्यक्तं विषमिति शेषः, के ? नागा इति शेषः, ते किंविशिष्टा नागाः ? कुले जाताः समुत्पन्नाः, किंभूते कुले ? अगन्धने, नागा देधाः गन्धना अगन्धनाश्च. तत्र ये गन्धनास्ते-डसिए मंतेहिं आकविआ, तं मुहओ आपिअंति. अगंधणा पुण अवि मरणमज्झवस्संति
For Private and Personal Use Only