________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे इति य एव कान्तान् शोभनान् प्रियान् इष्टान् भोगान् शब्दादिविषयान् लब्धान् सतः, 'विपिट्टि कुव्वइत्ति ' कोऽर्थः ? विविधमनेकप्रकारैः शुभभावनादिभिः पृष्ठतः करोति परित्यजति न बन्धनेन बद्धः प्रोषितो वा, किन्तु स्वाधीनः, न परायत्तः, स्वाधीनानेव परित्यजति भोगान् ततश्च य ईदृशः, हुशब्दोऽवधारणार्थे, स एव त्यागीत्युच्यते भरतादिवत्. ३. समाईति - समया आत्मपरतुल्यया प्रेक्षया दृष्टया परिव्रजतः परि समन्ताद् व्रजतो गच्छतः, गुरोरुपदेशदानेन संयमयोगेषु वर्तमानस्य, एवंविधस्य त्यागिनोऽपि स्यात्कदाचिदचिन्त्यत्वात् कर्मगतेर्मनोन्तःकरणं निस्सरति बहिर्धावति, केन ? भुक्तभोगिनः
जे कंते पिए भोए लध्धे विपिट्टि कुव्वइ । साहीणे चयई भोए से हु चाइत्ति बुच्चइ ३. समाइ पेहाइ
परिव्वयंतो सिया मणो निस्सरई बहिद्धा । न सा महं नावि अहं वि तीसे इच्चेव ताओ विणइज रागं ४. पूर्वक्रीडितस्मरणादिना, अभुक्तभोगिनःश्च कुतूहलादिना, बहिर्धा संयमगेहाइहिरित्यर्थः, तदा सोऽशुभोऽध्यवसायः, प्रशस्ताध्यवसायेन स्थगनीयः, केनालम्बनेन इत्याह-यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं नसा मम मदीया, नाप्यहं तस्याः, पृथक्कर्मभुजो हि प्राणिन इत्येवं, ततस्तस्याः सकाशाद्वयपनयेद्वागं, तत्त्वदर्शिनो हि संनिवर्तन्त एव ४. एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं विधिवमिंतरेण कर्तुं शक्यते, अतो बाह्यविधिविधानार्थमाह
१ वामेनेति भावः ।
For Private and Personal Use Only