________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावः, केन ? एवंविधेन चेतसा, किंभूतेन चेतसा, अव्वक्खित्तेण, अव्याक्षिप्तेनान्यत्रोपयोगमगच्छता, किंभूतः साधुः ? ऋजुप्रज्ञोऽकुटिलमतिः, पुनः किंभूतः साधुः ? अनुद्विमः, सर्वत्र क्षुदादिजयात्पशान्तः ९०. ततः किं कुर्यादित्याह-नेति-साधुस्तस्य सूक्ष्मातिचारस्य यत्पूर्व कृतं तत्पुर-कर्म, यत्पश्चात्कृतं तत्पश्चात्कर्म सूक्ष्मं न सम्यगालोचितं भवेत्, कुतः ? अज्ञानादनाभोगेनाननुस्मरणादा, तत्सर्व पुनरालोचनानन्तरकालं प्रतिकामेत्, किं कृत्वा ! 'इच्छामि
न सम्ममालोइअं कुज्जा पुट्विं पच्छा व जं कडं। पुणो पडिकमे तस्स वोसट्ठो चिंतए इमं ९१. अहो जिणेहिं असावजा वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स साहुदेहस्स धारणा ९२.
णमुक्कारेण पारिता करित्ता जिणसंथवं । सब्भायं पठवित्ता णं वीसमेज खणं मुणी ९३. |पडिक्कमिडं गोअरचरिआए' इत्यादि सूत्रं पठित्वा, ततो व्युत्सृष्टः कायोत्सर्गस्थ इदं वक्ष्यमाणं गाथारूपं चिन्तयेत्. ९१. किं |चिन्तयेत्तदाह-अहो इति-अहो इति विस्मये जिनस्तीर्थकरैः साधूनां वृत्तिर्दर्शिता देशिता वा, किंभूता वृत्तिः ? असावद्या अपापा,कस्मै ! साधुदेहस्य धारणाय धारणार्थ, किंभूतस्य साधुदेहस्य? मोक्षसाधनहेतोः मोक्षसाधनं ज्ञानदर्शनचारित्ररूपं, तस्य हेतोः. ९२ ततः किं कुर्यादित्याह-णमुक्कारेति-मुनिः क्षणं स्तोककालं विश्राम्येत्, किं कृत्वा ? नमस्कारेण नमो अरि
For Private and Personal Use Only