________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विधिना कार्य सम्प्रमृज्य भुञ्जीत ८३. अथ तत्र भुञ्जानस्य साधोरस्थि वा कण्टकादि वा स्यात्तदा साधुः किं कुर्यादित्याहतत्थेति तत्र कोष्ठकादौ से तस्य साधोर्भुञ्जानस्यास्थि वा कण्टको वा स्यात्, अन्ये वदन्ति - कथञ्चिदगृहिणां प्रमाददोषात्कारणगृहीते पुद्गल एव, तृणं वा काष्ठं वा शर्करा वा स्यात्, अन्यद्वापि तथाविधं चदरकण्टकादि वा स्यात् ८४. तमिति साधुः तदस्थ्यादिकमुत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथास्येन मुखेन नोज्झेत्, माभूद्विराधनेति हेतोः, अपि तु किं कुर्यात् ?
तत्थ से भुंजमाणस्य अट्टिअं कंटओ सिआ । तणकट्ठसकरं वा वि अन्नं वा वि तहाविहं ८४. तं उक्खवितु न निक्खिवे आसएण न छडए । हत्थेण तं गहेऊण एगंतमवक्कमे ८५. एतमवक्कमित्ता अचित्तं पडिलेहिआ । जयं परिहविज्जा परिट्ठप्प पडिक्कमे ८६. सिआय भिक्खू इच्छिज्जा सिजागम्मभुत्तुअं । सपिंडपायमागम्म उंडुअं से पडिलेहिआ ८७.
Acharya Shri Kailassagarsuri Gyanmandir
हस्तेन तदस्थ्यादिकं गृहीत्वैकान्तं निर्व्यञ्जनं स्थानमवक्रामेद्गच्छेत् ८५. तत्र गत्वा किं कुर्यादित्याह - एगंतमिति - साधुस्तदस्ध्यादिकं यतमत्वरितं प्रतिष्ठापयेत्, किं कृत्वा ? एकान्तमवक्रम्य गत्वा, पुनः किं कृत्वा १ अचित्तं प्राशुकं प्रत्युपेक्ष्य चक्षुषा, रजोहरणेन प्रमार्ण्य च परिष्ठाप्य च प्रतिक्रामेदीर्यापथिकीमिति ८६. अथ वसतिमधिकृत्य भोजनविधिमाह - सिएति - स्यात्कदा -
For Private and Personal Use Only