SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsur Gyarmandie दश० दीपि गृहीतमत्यम्लादिकं प्रतिष्ठापयेद्विधिना व्युत्सृजेत्, किं कृत्वा ? एकान्तं स्थानमवक्रम्य गत्वा अचित्तं दग्धप्रदेशादिस्थान प्रत्युपेक्ष्य चक्षुषा, प्रमृज्य च रजोहरणेन स्थण्डिलमिति शेषः, कथं प्रतिष्ठापयेत् ? यतमत्वरितं न शीघ्रं. प्रतिष्ठापनानन्तरं किं कुर्यादित्याह-प्रतिष्ठाप्य वसतिमुपाश्रयमागतः सन् प्रतिक्रामेदीर्यापथिकीम्, एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति. ८१. एवमन्नपानग्रहणविधि कथयित्वा भोजनविधिमाह-सिएति-बालादिः साधुः पिपासाद्यभिभूतः स्यात् कदाचिद्गोचराग्रगतो ग्रामान्तरं भिक्षार्थ प्रविष्टः सन् परिभोक्तुमिच्छेत्तदा तत्र वसतिर्नास्ति. सिआ अ गोयरग्गगओ इच्छिज्जा परिभुत्तुअं । कुट्टगं भित्तिमलं वा पडिलेहिता ण फासुअं८२. 9. अणुन्नवित्तु मेहावी पढिच्छन्नंमि संवुडं। हत्थगं संपमाजता तत्थ भुजिज्ज संजए ८३. तदा कोष्ठकं शून्यं च मठादि भित्तिमूलं वा कुड्यैकदेशादीत्याह ८२. अणुन्नेति-संयतः साधुस्तत्र स्थाने वक्ष्यमाणेन विधिना रागद्वेषरहितः सन् भुञ्जीत, किं कृत्वा ? तत्स्वामिनमवग्रहमनुज्ञाप्यादेशं गृहीत्वा सागारिकपरिहारतो विश्रामणव्याजेन. किंभूतः संयतः ? मेधावी साधुसामाचारीविधिज्ञः, किंभूते कोष्ठकादिस्थाने ? प्रतिच्छन्ने, उपरि तृणादिभिराच्छादिते, नाकाशे, किंभूतः संयतः ? संवृत उपयुक्तः सन्नीर्याप्रतिक्रमणं कृत्वा, ततो हस्तकं मुखवस्त्रिकारूपमादायेति शेषः, तेन ॥३७॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy