________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थोवेति-साधुर्दातारं प्रत्येवं वदेत्, एवं किं ? मे मम हस्ते आस्वादनार्थ स्तोकं पानीयं प्रथमं देहि ? यदि साधोरुपभोग्यं ततो| ग्रहीष्ये, मा मे मम अत्यम्लं पूति तृषापनोदाय नालं समर्थ, ततः किमनेनाप्रयोजनेनेति. तत आस्वादितं सच्च तत्साधुयोग्य चेद्भवति तदा गृह्यत एव, नो चेत्तदाऽग्राह्यम् ७८. अथ कदाचित् स्त्री तदत्यम्लमपि ददाति तदा तां ददती प्रति साधुः किं वक्ति तदाह-तमिति-तच्चात्यम्लं पूति नालं समर्थ तृष्णां विनेतुं, ततो ददती प्रति वक्ति न मम कल्पते तादृशमिति. ७९.
थोवमासायणहाए हत्थगंमि दलाहि मे । मामे अच्चंबिलं पूअं नालं तिन्हं विणित्तए ७८. तं च अच्चंबिलं पूयं नालं तिन्हं विणित्तए । दितिअं पडिआइक्खे न मे कप्पइ तारिसं ७९. तं च होज अकामेणं विमणेण पडिच्छि। तं अप्पणा न पिबे नो वि अन्नस्स दावए ८०.
एगंतमबक्कमित्ता अचित्तं पडिलेहिआ। जयं परिहविज्जा परिदृप्प पडिक्कमे ८१. अथाकामादिना कदाचित्तदत्यम्लादिकं गृहीतं तदा को विधिस्तदाह-तमिति-एवंविधमत्यम्लादि साधुना कदाचिदकामेना-| महवशेन विमनस्केनान्यचित्तेन प्रतीच्छितं गृहीतं भवेत्तदापि तत्साधुन पिबेत्कायस्यापकारकमित्यनाभोगधर्मश्रद्धयापि, नापि अन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् इह चेयं भावना-सव्वत्थ संजमं संजमाओ अप्पाणं चेव रक्खिज्जा' इति. ८०. ननु स्वयं तादृशं न पिबेदन्यस्य न पाययेत्तर्हि किं कुर्यादित्याह-एगमिति-साधुस्तत्पूर्व
For Private and Personal Use Only