________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०६
दीपि.
दाक्षापानादि, अवचं वर्णादिहीने पूत्याग्नालादि, अथवा वारकधावनं गुडघटधावनादि धान्यस्थालीक्षालनादि, संस्वेदजं पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां साधुर्रहीयादिति वाक्यशेषः. तन्दुलोदकमधुनाधौतमपरिणतं साधुर्विवर्जयेत्. ७५. अत्रैव विधिमाह-जमिति-साधुर्यत्तन्दुलोदकमेवं जानीयात्तद् गृहीयादिति शेषः, किंविशिष्टं तन्दुलोदकं ? चिराद्घौतं, कथं जानीयादित्याह-मत्या तद्ग्रहणादिकर्मजया, तथा दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण वा, किं कृत्वा ? इति गृहस्थं पृष्ट्वा इतीति किं ? कियती वेलास्य धौतस्य जातेति, च पुनरिति श्रुत्वा गृहस्थात्, इतीति किं ? महती वेला जातास्य धौतस्येति.
जं जाणेज्ज चिरा धोयं मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा जंच निस्संकिअं भवे७६.
अजीवं परिणयं नच्चा पडिगाहिज्ज संजए। अह संकियं भविज्जा आसाइत्ता ण रोअए ७७. एवं च यन्निःशङ्कितं भवति तद् गृहीयादिति. ७६ अथोष्णोदकादिविधिमाह-अजीवमिति-संयतः साधुरेवंविधमुष्णोदक गृहीयादित्युक्तिः, किं कृत्वा ! अजीवं प्रासुकं, तथा परिणतं त्रिदण्डोत्कलितं, चतुर्थरसमप्यपूत्यादि देहोपकारक मत्या दर्शनेन वा ज्ञात्वाथ शङ्कितं भवेत्पूल्यादिभावेन, ततः तत्पानीयमास्वाद्य रोचयदिनिश्चयं कुर्यात्. ७७ अथ केन विधिना| विनिश्चयं कुर्यादित्याह
॥३६॥
For Private and Personal Use Only