SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie अणुन्नेति-साधुरेवं चरेद्गच्छेत्. किंभूतो मुनिः ? अनुन्नतः, न उन्नतः अनुनतः, द्रव्यतो नाकाशदर्शी, भावतस्तु न जात्यादी-!॥ नामभिमानकर्ता, पुनः किंभूतो मुनिः? नावनतः, न अवनतः द्रव्यतो न नीचकाया. भावतस्तु नालब्ध्यादिना दीनः, पुनः किंभूतो मुनिः ? अप्रहृष्टो लाभादी सति न हर्षवान्. पुनः किंभूतो मुनिः ? अनाकुलः न आकुलः क्रोधादिना रहितः, किं कृत्वा मुनिश्चरेदित्यत आह-इन्द्रियाणि स्पर्शनादीनि यथाभागं यथाविषयमिष्टेषु स्पर्शादिषु प्रवर्तमानान्यनिष्टेभ्यः स्पर्शादिभ्यो निवर्तमानानि दमयित्वा रागद्वेषरहितश्चरेदित्यर्थः. विपरीते नु प्रभूता दोषा प्रकटीभवेयुः १३ पुनराह अणुन्नए नावणए अप्पहिहे अणाउले। इंदिआणि जहाभागं दमइत्ता मुणी चरे १३. दवदवस्स न गच्छेज्जा भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा कुलं उच्चावयं सया १४. आलोअंथिग्गलं दारं संधि दगभवणाणि अ।चरंतोन विनिजाए संकटाणं विवजए १५. |दवदवस्सेत्ति-द्रुतं दतं मुनिन गच्छेत् तु पुनर्भाषमाणो गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्. कुलमुच्चावचं सदा उच्च द्रव्यतो धवलगृहादि. भावतो जात्यादियुक्तम्, एवमवचं द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनम, उभयविराधनालोकोपघातादयो दोषाः स्युः. १४. पुनरत्रैव विधिमाह-आलोअमिति-मुनिः चरन् भिक्षार्य गच्छन्नेतानि न विनिध्यायेत्. विशेषेण न पश्येत्, कान्येतानीत्यत आह-आलोकं निर्यहकादिरूपं, थिग्गलं भित्तिद्वारादि, सन्धिः क्षात्रं, दकभवनानि पानीय For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy