SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ २६ ॥ www.kobatirth.org प्राणातिपातविरत्यादीनां पीडा भावविराधना. कथं ? यतस्तदानीं स साधुस्तदाक्षिप्तचित्तो भवति पुनः श्रामण्ये श्रमणभावे द्रव्यतो रजोहरणादिधारणरूपे भूयो भावतो व्रतप्रधान हेतौ संशयः कदाचिदुन्निष्क्रामत्येव. १०. अथ निगमयन्नाह - तम्हेतियस्मादेवं तस्मान्मुनिः वेश्यासामन्तं वेश्यागृहसमीपं वर्जयेत् । किं कृत्वा ? दोषं पूर्वोक्तं विज्ञाय किं भूतं दोषं ? दुर्गतेर्वर्धनं. किंभूतो मुनिः ? एकान्तं मोक्षमाश्रितः शिष्यः प्राह - ननु प्रथमव्रतविराधनानन्तरं चतुर्थव्रतस्य विराधनायाः कथमुपन्यासः । उच्यते-अन्यव्रतविराधना हेतुत्वेन चतुर्थव्रतस्य विराधनायाः प्राधान्यख्यापनार्थ तच्च लेशतो दर्शितमेव. ११. अथ अत्रैव विशे तम्हा एअं विआणित्ता दोसं दुग्गइवड्ढणं । वज्जए वेससामंतं मुणी एगंतमस्सिए ११. साणं इअं गावं दित्तं गोणं हयं गयं । संडिप्भं कलहं जुद्धं दूरओ परिवजए १२. Acharya Shri Kailassagarsuri Gyanmandir षमाह-साणमिति - साधुरेतानि दूरतो दूरेण परिवर्जयेत् कानि तानीत्यत आह-वानं प्रसिद्धं सूतां गां नवप्रसूतां धेनुं, तथा दृप्तं दर्पितं गोणं बलीवर्द, दृप्तशब्दः सर्वत्र सम्बध्यते, ततो दृप्तं हयमश्वं, पुनर्दृप्तं गजं हस्तिनं, तथा सण्डिब्भं बालक्रीडास्थानं. कलहं वाक्प्रतिबद्धं युद्धं खड्गादिजातं, कथमेतानि वर्जयेदित्यत आह-सूतगोप्रभृतिभ्य आत्मविराधना स्यात्, वालकी - | डास्थाने वन्दनागतपतनभण्डनलुठनादिना संयमविराधना स्यात्, सर्वत्रात्मपात्रभेदादिना उभयविराधनापि स्यात्. १२. अथात्रैव विधिमाह For Private and Personal Use Only अध्य० ५. ॥ २६ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy