________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किंभूतो मुनिः ? अनुदिनः, नोदिनः प्रशान्तः परीपहादिभ्यो न भयं कुर्वन्नित्यर्थः, केन ? चेतसा चित्तेन, किंभूतेन चेतसा ? अव्याक्षिप्तेनाहारस्यैषणायामुपयुक्तेनोपयोगवतेत्यर्थः २.(अथ)यथा चरेत्तथा(थैवा)ह-पुर इति-एवंविधः सन मुनिर्महीं चरेद्यायात. परं न शेषदिशां विलोकनेनेति शेषः. किं कुर्वाणः ? कुतोऽग्रत्तो युगमात्रया शरीरप्रमाणया दृष्टयेति शेषः. प्रेक्षमाणः प्रकर्षण पश्यन, पृथिवीं प्रेक्षमाण एव केवलं न, किन्तु बीजहरितानि परिहरन. पुनःप्राणिनो द्वीन्द्रियादीन् पुनरुदकमकायं पुनर्मृत्तिका |पृथ्वी कायं चशब्दात्तेजोवायू च परिहरन इति संयमविराधनायाः परिहारः कथितः.३. अथात्मसंयमयोद्धयोर्विराधनापरिहारमाह-|
परओ जगमायाए पेहमाणो महि चरे । वजंतो वीयहारयाई पाणे अ दगमहिअं३.
ओवायं विसमं खाणुं विजलं परिवजए । संकमेण न गच्छिजा विजमाणे परक्कमे ४. ओवायमिति-साधुरतत् (सर्व) परिवर्जयेत् परिहरेत्. एतकिमित्याह-अवपातं गर्तादिरूपं. विषमं नीचोत्रतस्थानं. स्थाणुमूर्ध्व | काष्ठं विजलं विगतजलं कर्दम. पुनः साधुः संक्रमेण जलगांदिपरिहारार्थ पाषाणकाष्ठरचितेन कृत्वा न गच्छेत्. कथम्? आत्मसंयमयोर्दयोर्विराधनायाः सम्भवात्, अपवादमार्गमाह-विद्यमाने पराक्रमेऽन्यमार्गे सतीत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेत्, ४. अथावपातादौ दोपमाह
For Private and Personal Use Only