________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इति पूर्वप्रकारेणतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदिति योगः क इत्याह- सम्यग्दृष्टिजीवः सूत्रश्रद्धावान् किंभूतः ? सदा यतः सर्वकालं यतनापरः किमित्याह- दुर्लभं लब्ध्वा श्रामण्यं साधुत्वं षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत्. अप्रमत्तस्य तु यद्यपि कथञ्चिद् द्रव्यविराधना स्यात्तथा
इच्चेअं छज्जीवणिअं सम्मद्दिट्ठी सया जए। दुल्लहं लहित्तु सामन्नं कम्मुणा न विराहिज्जासि त्ति बेमि२९. चउत्थं छज्जीमणिआणामज्झयणं सम्मत्तं ।
प्यसौ न विराधकः एतेन - "जले जीवाः स्थले जीवा आकाशे जीवमालिनि । जीवमालाकुले लोके कथं भिक्षुरहिंसकः" १. इत्येतत्प्रत्युक्तं तथा सूक्ष्मजीवानां विराधनाया अभावाच्च ब्रवीमीति पूर्ववत् २९.
इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकवृत्तौ षड्जीवनिकाध्ययनं समाप्तम् । श्रीरस्तु ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir