________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जयेति - ' जया इत्यादि ' यदा यस्मिन् काले जीवान जीवान् द्वावप्येतौ विजानाति, अनेन प्रकारेण जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपां बहुविधामनेकप्रकारां सर्वजीवानां जानाति यथावस्थितजीवाजीवादिपरिज्ञानं विना गतिपरिज्ञानस्याभावात्. १४. अथ उत्तरोत्तरफलवृद्धिमाह - जयेति यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं तथा बन्धं जीवकर्मयोगदुःखलक्षणं. मोक्षं च जीवकर्मवियोगसुखलक्षणं जानाति १५.
जया जीवमजीवे अ दो वि एए वियाणइ । तया गई बहुविहं सव्वजीवाण जाणइ १४. जया गई बहुविहं सव्वजीवाण जाणइ । तया पुन्नं च पावं च बंधं मुक्खं च जाणइ १५. जया पुन्नं च पावं च बंधं मुक्खं च जाणइ । तया निव्विंदए भोए जे दिव्वे जे अ माणुसे १६. जया निव्विंद भोगे जे दिव्ये जे अ माणुसे । तया चयइ संजोगं सभिंतर बाहिरं १७. जयेति यदा पुण्यं च पापं च बन्धं च मोक्षं च जानाति, तदा निर्विन्ते मोहाभावात्सम्यग्विचारयत्यसारदुःखरूपतया, कान् ? भोगान् शब्दादीन् यान् दिव्यान् यान् मानुषान्, तेभ्यो व्यतिरिक्ताः शेषाः परमार्थतो भोगा एव न भवन्ति. १६. जयेति यदा निर्विन्ते भोगान् दिव्यान् मानुषान् तदा व्यजति संयोगं सम्बन्धं साभ्यन्तरबाह्यं, क्रोधादिरूपमाभ्यन्तरं स्वर्णादिरूपं बाह्यं सम्बन्धमित्यर्थः १७.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir