________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विना, यतमासीत उपयुक्तः सन्नाकुञ्चनादेरकरणेन, यतं स्वपेत् समाधिमान् सन् रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानोऽप्रणीतं सिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया तदपि मृदु कालपाप्तं च, एवं कुर्वन् साधुः पापं कर्म क्लिष्टमकुशालानुबन्धि ज्ञानावरणीयादि न बधाति, कथम् ? आश्रवरोधनात् साध्वाचारतत्परत्वाच्च. ८. सब्वेति|किश्चैवंविधस्य साधोः पापं कर्म न बध्यते. तस्य साधोः पापकर्मवन्धो न भवतीत्यर्थः, किंभूतस्य साधोः ? सर्वभूतेप्वात्मभूतो य आत्मवत्सर्वभूतानि पश्यति तस्य, किंकुर्वतः साधोः ? सम्यग्वीतरागकथितेन विधिना भूतानि पृथिव्या
सव्वभूयप्पभूअस्स सम्मं भूयाइ पासओ। पिहिआसवस्स दंतस्स पावं कम्मं न बंधइ ९.
पढमं नागं तओ दया एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही किंवा नाही छेअपावगं १०. । दीनि पश्यतः, पुनः किंभूतस्य साधोः ? पिहितो निरुद्धः स्थगित आश्रवः प्राणातिपातादिरूपो येन स तस्य, पुनः किंभूतस्य साधोः ? दान्तस्य दमितेन्द्रियनोइन्द्रियव्यापारस्य, एवं सति किं भवति ? सर्वभूतदयावतः पापकर्मबन्धो न भवति.९.शिष्यः पाह-पढममिति-इत्यनेन किमागतं ? सर्वप्रकारेण दयायामेव यतितव्यं. किं प्रयोजनं ज्ञानाभ्यासेन ? गुरुराह-मा एवं भ्रमं कुरु ? यतः प्रथममादौ ज्ञानं जीवस्वरूपरक्षणस्योपायफलविषयं, ततस्तथाविधज्ञानात्पश्चाद्दया संयमः, एवमनेन प्रकारेण ज्ञानपूर्वकदयाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः सर्वोऽपि साधुवर्गः परं यः पुनरज्ञानी ज्ञानरहितः स किं करिष्यति ? - १ स्वयादिति साधीयान् ।
-
For Private and Personal Use Only