SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ १२ ॥ www.kobatirth.org सप्तम्यर्थे षष्ठी, तत एतेषु षट्सु जीवनिकायेषु पूर्व कथितस्वरूपेषु नैव स्वयमात्मना दण्डं सङ्घट्टनपरितापनादिलक्षणं | समारभेत प्रवर्तयेत् तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तरूपं समारम्भयेत् कारयेदित्यर्थः दण्डं समारभमाणानपि अन्यान् प्राणिनो न समनुजानीयात्, नानुमोदयेदिति विधायकं भगवद्वचनं यतश्चैवं ततो यावज्जीवमित्यादि यावद्वयुत्सृजामि यावज्जीवं यावत्प्राणधारणं तावदित्यर्थः किमित्याह -त्रिविधं त्रिविधेनेति तिस्रो विधाः कृतादिरूपा यस्येति त्रिविधो दण्ड इति गम्यते. तं विविधेन करणेन. एतदेव दर्शयति-मनसा वाचा कायेनैतेषां स्वरूपमेवम् - अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं च वस्तुतो निषेधरूपतया सूत्रेणैव दर्शयति-न करोमि स्वयं न कारयाम्यन्यैः कुर्वन्तमप्यन्यं नः समनुजानामीति तस्य है भदन्त ! प्रतिक्रमामीति तस्य इति अधिकृतो योऽसौ त्रिकालविषयो दण्डस्तस्य सम्बन्धेनातीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा. अतीतस्यैव प्रतिक्रमणात्. भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणी श्रुतिः, अनेनैवं ज्ञापितं - व्रतम तिपत्तिर्गुरुसाक्षिक्येव, प्रतिक्रमामीति भूतदण्डादहं निवर्त इत्युक्तं भवति, तस्माच्च निवृत्तिर्यदनुमतेर्विरमणम् तथा निन्दामि गर्हामि, तत्र निन्दा आत्मसाक्षिकी, गर्दा परसाक्षिकी, जुगुप्सा च आत्मानमतीतदण्डकारिणमश्लाघ्यम् व्युत्सृजामीति विशेषेिण भृशं च त्यजामि अयं चात्मप्रत्ययो दण्डः सामान्यविशेषभेदाद्देधा, तत्र सामान्येन पूर्व कथितः स एव विशेषेण महाव्रतरूपतया आह सूत्रक्रमेण - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अध्य० १. ॥ १२ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy