SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandir कष्टेभ्यः, कथमित्युपावमाह-यतः किम्भूतेन साधुना ? सवेन्द्रियैः स्पर्शनादिभिः सुसमाहितेन निवृत्तविषयव्यापारण, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन्नात्मा पन्थानं जन्ममार्ग संसारमुपैति सामीप्येन गच्छति, अथ सुरक्षितः पुनरात्मा यथागमम प्रमादेन सुष्टु रक्षितः सन् सर्वदुःखेभ्यः शारीरमानसेभ्यो विमुच्यते, विविधमनेकैः प्रकारैरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणेKAMच्यते विमुच्यते, ब्रवीमीति पूर्ववत्. १६. ॥ इति चूलिकाद्वयं व्याख्यातम् ॥ श्रीरस्तु ॥ अथ प्रशस्तिमाह-हारीभद्रकृता टीका वर्तते विषमा परम् । मया तु शीघ्रबोधाय शिष्याथ सुगमा कृता. १. चंद्रकुले श्रीखरतर-गच्छे जिनचन्दसूरिनामानः । जाता युगप्रधानास्तच्छिष्यः सकलचन्द्रगणिः. २. तच्छिष्पसमयसुन्दर-गणिना| च स्तम्भतीर्थपुरे चक्रे । दशवकालिकटीका शशिनिधिशृङ्गारमितवर्षे. ३. अर्थस्यानवबोधन मतिमान्यान्मतिभ्रमात् । जिनाज्ञाविपरीतं यत्तन्मिथ्यादुष्कृतं मम. ४. ममोपरि कृपां कृत्वा शोधयन्तु बुधा इमाम् । परोपकरणे यस्मात्तत्परा उत्तमा नराः.५. टीकाकरणतः पुण्यं यन्मयोपार्जितं भवेत् । तेनाहमिदमिच्छामि बोधिरत्र परत्र मे. ६. शब्दार्थवृत्तिटीकायाः श्लोकमान-|| मिदं स्मृतम् । सहस्त्रनयमग्रे च पुनः सार्धचतुःशतम्. ७. इति श्रीदशवकालिकशब्दार्थवृत्तिप्रशस्तिः सम्पूर्णा. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy