________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
य आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति. १३. कथमित्याह -- जत्येवेति - साधुर्यत्रैव क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते पश्येत्पश्यत्युक्तवत्परमात्मदर्शनद्वारेण, केनेत्याह-कायेन, वाचा, अथ मानसेन. मन एवं मानसं करणत्रयेणेत्यर्थः, तत्रैव तस्मिन्नेव संयमस्थाने धीरो बुद्धिमान् प्रतिसंहरेत्प्रतिसंहरति,
जत्थेव पासे कइ दुप्पउत्तं कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा आइन्नओ खिप्पमिव क्वलीणं १४. जस्सेरिसा जोग जिइंदिअस्स धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी सो जीअई संजमजीविएणं १५.
Acharya Shri Kailassagarsuri Gyanmandir
यः स्वात्मानं सम्यग्विधि प्रतिपद्यत इत्यर्थः अत्र दृष्टान्तमाह-यथा जवादिभिर्गुणैराकीणों व्याप्तो जात्योऽश्व इति गम्यते, असाधारणविशेषणात् तच्चेदं - क्षिप्रमिव खलिनं शीघ्रं कविकमिव यथा जात्योऽश्रो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यत एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग्विधि, एतावतांशेन दृष्टान्तः १४. यः पूर्वरात्रेत्याद्यधिकारोपसंहारा
For Private and Personal Use Only