SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandie महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुरेभिश्च सह सङ्गतम्४. इत्यलं प्रसङ्गेन. १०. अथ सूत्रार्थावसरःसंवत्सरमिति-साधोः संवत्सरं वर्षासु चातुर्मासिकं ज्येष्ठावग्रहं विहारकालमाह-द्वितीयं नैकत्र क्षेत्रे वसेदपिशब्दान्मासमपि परं प्रमाणबद्धकाले द्वितीयं, तत्र क्षेत्रे न वसेत्, यत्रैको वर्षाकल्पः कृतस्तत्रोत्कृष्टतो द्वितीयो वर्षाकल्पो न कार्यः, एवं मासकल्पोऽपि द्वितीय एकक्षेत्रे उत्सर्गतो न कार्य ऋतुबद्धे काले, कुतः ? गृहस्थादिसङ्गदोषात, द्वितीयं तृतीयं वा वर्ष मासं संवच्छरं वावि परं पमाणं बीअंच वासं न तहिं वसिज्जा। सुत्तस्स मग्गेण चरिज भिक्खू सुत्तस्स अत्थो जह आणवेइ ११. वा परिहृत्य तत्र क्षेत्रे वसेदपि, किंबहुना ? सर्वत्रैव सूत्रमार्गेण चरेद्भिक्षुरागमादेशे वर्ततेति भावः. तथापि न ओघत एवी यथाश्रुतग्राही स्वात्, अपि तु सूत्रस्यार्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथाज्ञापयति नियुङ्क्ते तथा वर्तेत नान्यथा, यथेहापवादतो नित्यवासेपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्तेत नान्यथा । उद्धापनारायोगादित्येवं बन्दनप्रतिक्रमणादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकेहायातं परित्यजेत, - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy