________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagersuri Gyarmandie
लि०२
दश दीपि०
णादि लक्षणस्य हानिर्न स्यात्. ९. अनासक्लिष्टैः समं वसेदित्युक्तं, पुनर्विधिविशेषमाह-णेति-साधुः कालदोषाद्यदि कथ- श्चिनिपुणं संयमानुष्ठानकुशलं सहायं परलोकसाधने द्वितीयं न लभेत्, किम्भूतं सहायं ? गुणाधिकं वा ज्ञानादिगुणैरधिकं वा, गुणैः समं वा, वाशब्दाद्गुणहीनमपि जात्यकाञ्चनकल्पं विनीतं वा, तदा किं कुर्यादित्याह-तदैकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन, विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन सन विहरेदुचितविहारण, किं कुर्वन् ? कामे
॥११४॥
ण या लभेजा निउणं सहायं गुणाहिअं वा गुणओ समं वा । इकोवि पावाई विवजयंतो विहरिज कामेसु असजमाणो १०
पिच्छाकामादिष्वसजमानः सङ्गमगच्छन्नेकोऽपि विहरेत्, परं न तु पार्श्वस्थादिपापमित्रसङ्ग कुर्यात्तस्य दुष्टत्वात्, तथान्यैर-15
प्युक्तं-"वरं विदतु सह पन्नगर्भवेच्छिवात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्च परैरपण्डितैर्न पापमित्रैः सह वर्तितुं सक्षमम १. इहैव हन्युर्भुजगा हि रोषिता धृतासयश्छिद्मवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन सङ्गतः परत्र चैवह विहन्यते |
जनः २. तथा--परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योतिसन्धत्ते सोऽन्यस्मै स्यात्कथं हितः ३. तथा
For Private and Personal Use Only